________________
श्रीहेमचन्दाचार्याणां काव्यसृष्टिः
अत्र श्रीहेमचन्द्राचार्यविरचितेभ्यो ग्रन्थेभ्यः कानिचन काव्यानि तेषां सुधावर्षिण्या वाण्याः प्रासादिकत्वं, माधुर्यं, गौरवं, सामग्रयेण च प्रतिभामास्वादयितुं प्रस्तुतानि ।
मात्रयाऽप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥१॥ क्षुण्णाः क्षोणिभृतामनेककटका भग्नाऽथ धारा ततः कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः ! । आरूढप्रबलप्रतापदहनः सम्प्राप्तधारश्चिरात् पीत्वा मालवयोषिदश्रुसलिलं हन्ताऽयमधिष्यते ।।२।।
81
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org