________________
द्वैपायनर्षि-युधिष्ठिर-भीमानां संवादोऽस्ति, तं शृणोतु' ।
'एकदा द्वैपायनर्षिर्हस्तिनापुरमागतो राजप्रासादे च युधिष्ठिरेण सह च काञ्चिद् आवश्यकी चर्चा कर्तुमुपविष्टः । तदा युधिष्ठिरेण भीममाहूय कथितं - "भोः ! भवान् द्वारि तिष्ठतु, कञ्चिदप्यन्तर्मा प्रवेशयतु" । सोऽपि तत् स्वीकृत्य द्वारि स्थितः । तावता तत्र द्वौ जनौ दानग्रहणार्थमागतौ । तत्र 'कस्मै दानं दातव्य'मिति निर्णीतुमक्षमो भीमोऽन्तर्गत्वा युधिष्ठिरं पृच्छति स्म
"मूर्खस्तपस्वी राजेन्द्र ! विद्वांश्च वृषलीपतिः ।
उभौ तौ द्वारि तिष्ठेते, कस्मै दानं प्रदीयते ? ॥" तदा युधिष्ठिरेणोक्तं -
"सुखासेव्यं तपो भीम ! विद्याकष्टदुरासदा ।
विद्वांसं पूजयिष्यामि, तपसा किं प्रयोजनम् ? ॥" भीमोऽपि विचारकोऽस्ति । तेनोक्तं - "बन्धो ! श्रूयतां तावत् -
श्वानचर्मगता गङ्गा, क्षीरं मद्यघटस्थितम् । अपात्रे पतिता विद्या किं करोति युधिष्ठिर !? ॥"
एतस्य श्रवणेन युधिष्ठिरस्याऽप्यसामञ्जस्यं जातम् । "किमधुनाकर्तव्य"मिति स चिन्ताकुलो जातः । तदा द्वैपायनर्षिणोक्तं
"न विद्यया केवलया, तपसा चाऽपि पात्रता ।
यत्र ज्ञानं क्रिया चोभे, तद्धि पात्रं प्रचक्षते ।।" ततश्च द्वयोरपि युधिष्ठिर-भीमयोः समाधानं जातम् ।'
'अतो राजन् ! एवं विवेकेन ज्ञान-क्रियोभययुक्तं पात्रं निर्णेतव्यम्' ।
एतच्छ्रुत्वा राजा प्रसन्नो जातस्तस्य चाऽऽचार्यान् प्रति
32 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org