________________
अधाम धामधामेदं वयमेव हृदि स्फुटम् ।
यस्याऽस्तव्यसनं प्राप्ते त्यजामो भोजनोदके ।। अन्ये तु न परमार्थतः सूर्याराधकाः, यतः
पयोदपटलैश्छन्ने नैव कुर्वन्ति भोजनम् ।
अस्तङ्गतेऽतिभुञ्जाना अहो भानोः सुसेवकाः ॥ अस्तङ्गते च सूर्ये भोजनादीनां त्यागादि महत्फलं प्राप्येत । एतदर्थे च महर्षिणा व्यासेनाऽप्युक्तम्
ये रात्रौ सर्वदाऽऽहारं वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य फलं मासेन जायते ॥'
श्रुत्वैतत् प्रसन्नः सिद्धराजः सभासद उद्दिश्योक्तवान् - "विचार्यैव वक्तव्यं सर्वथा, न पुनरविचार्य'ति ।
एवमेवाऽन्यदा राजसभायां समागतेभ्यः सर्वेभ्योऽपि धर्मगुरुभ्योऽन्यपण्डितेभ्यश्च राज्ञा पृष्टं - 'मान्या धर्मगुरवो विद्वांसश्च ! अहं ज्ञातुमिच्छामि यदत्र जगति पात्रं किम् ?'
तदा तदुत्तररूपेणाऽन्यान्यैर्धर्मगुरुभिः पण्डितैश्च स्वस्वसम्प्रदायानुसारं ये वर्तन्ते ये वाऽमुकं दर्शनं मन्यन्ते ते पात्रमिति प्रतिपादितम् । एतेन राज्ञः सन्तोषो नैव जातः । अथैतावताऽपि हेमचन्द्राचार्या मौनमाश्रित्यैवोपविष्टा आसन् । एतदुपलक्ष्य राज्ञा सादरमाचार्याः पृष्टा इममेवाऽर्थम् । एतद्विलोक्य बहव ईर्ष्यालवो हृष्टा जाता यदधुना जैनत्वादेते जैनमुनिरेव पात्रमिति कथयिष्यन्ति, तदा च तेऽपि साम्प्रदायिका मताग्रहिणश्चैवेति सिद्धं भविष्यति। ततश्च राजा जैनेभ्यो विमुखो भविष्यतीति ।
किन्तु हेमचन्द्राचार्याणां पिण्डमन्ययैव मृत्तिकया निर्मितमासीत् । तैरुक्तं - 'राजन् ! श्रूयताम् । पात्रपरीक्षा तु स्वविवेकनैव जायते न तु कस्यचित् कथनेन । एतदर्थे महाभारते
31 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org