SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ समादरोऽधिको जातः । एवंरीत्यैवाऽन्यदा राज्ञा 'को धर्मो मया समाचरितव्यः ?' इति राजसभायां पृष्टे पूर्वोक्तनीत्यैव हेमचन्द्राचार्यैश्चारिसञ्जीवनीचारन्यायदृष्टान्तं श्रावयित्वा धर्मपरीक्षा कथं कर्तव्येति ज्ञापितं सर्वदर्शन-सम्मानेनैव सत्यधर्मो मार्गश्चाऽऽराध्यते इति कथितम् । एतेन राज्ञः समभाव इतोऽपि वृद्धिङ्गतः । अथ चैकदा हेमचन्द्राचार्याश्चैत्यपरिसरे श्रीनेमिनाथचरितं वर्णयन्तोऽवसरप्राप्तं पाण्डवचरितं वर्णितवन्तः । तत्र च 'पाण्डवा जैनदीक्षां गृहीतवन्तः सिद्धाचले चाऽनशनं गृहीत्वा निर्वाणं प्राप्तवन्तः' इत्यपि सविस्तरं वर्णितवन्तः । एतच्छ्रुत्वा केचनेालवः सिद्धराजस्याऽग्रे - 'जैना एते स्मृतेर्विद्रोहं कुर्वन्ति, तत्रोक्ताद् विपरीतं भणन्ति । एतेनाऽस्मत्पुरेऽरिष्टमपि कदाचिदुत्पद्यते'त्यादिकमधिक्षेपं कृतवन्तः । तदा सिद्धराजोऽपि तेषां समक्षवाऽऽचार्यान् एतद्विषयं स्पष्टीकर्तुं विज्ञपयामास । आचार्या अपि तदा महाभारत-वर्णितपाण्डवेभ्यो जैनशास्त्रवर्णितपाण्डवानामन्यत्वं महाभारतस्य सन्दर्भेणैव प्रतिपाद्य सर्वमपि स्पष्टीकृत-वन्तः । एतेन तुष्टो राजा तान् सादरं प्रशंसितवान् । एवं चैतादृशैर्बहुभ्यः प्रसङ्गेभ्यो ज्ञातैः श्रीहेमचन्द्राचार्याणां समन्वयकारिता-समुदारदृष्टि-क्लेशाकरण-बहुशास्त्रज्ञता-प्रत्युत्पन्नमतिता-निराग्रहिता-सर्वग्राहिपाण्डित्यादिभिर्गुणैर्नितरामभि-भूतो राजा तान् प्रत्यधिकाधिकमादरवान् जातः । प्रायः सर्वकार्येषु च तेषामभिप्रायं पृच्छति स्म । किञ्च, सिद्धराजजयसिंहस्य पुत्रो नाऽऽसीत् । अतो वैक्रमे * चारिसञ्जीवनीचारन्यायदृष्टान्तं परिशिष्टे विलोक्यताम् । + अयं प्रसङ्गो यथा प्रभावकचरिते वर्णितः स सर्वोऽपि परिशिष्टे विस्तरेण प्रदत्तोऽस्ति । कृपया तत्रैव विलोक्यताम् । 33 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
SR No.003028
Book TitleHemchandracharya Jivan Charitam
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2011
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy