________________
११८५तमेऽब्दे तेन पुत्रकामनया पादचारेण तीर्थयात्रा कृता । तस्य नम्रविज्ञप्त्या च हेमचन्द्राचार्या अपि सहैव ययुः । तदवसरे तेनाऽति निकटतयाऽऽचार्याणां जीवनं विलोकितं, तेषां च त्यागतपः-शुद्धिः-निःस्पृहता-स्वस्थतादयो गुणा अप्यनुभूताः । ततस्तेनाऽऽचार्यैः सहैव शत्रुञ्जयतीर्थ-गिरिनारतीर्थ-सोमनाथतीर्थादीनां यात्रा कृता। यात्रान्ते च तेनाऽऽचार्येभ्यो विज्ञप्तं - 'प्रभो ! भवतां योग-ज्ञानबलेन कृपया विलोक्यतां यन्मे पुत्रो भविष्यति न वा?' तदाऽऽचार्यैरपि सोमनाथसमीपस्थे कोटिनगरे (कोडीनार) गत्वा दिनत्रयोपवासैश्चा-ऽम्बिकादेवीमाराध्य प्रसन्नीकृत्य च 'सिद्धराजस्य पुत्रो भविष्यति न वे'ति पृष्टम् । देव्या कथितं – 'सिद्धराजस्य भाग्ये सन्तानसुखं नास्ति । सोऽपुत्र एव मरिष्यति । तस्याऽन्वये तु तद्भातुस्त्रिभुवनपालस्य पुत्रः कुमारपालो राजा भविष्यति । एतदर्थसंवादिनी चेयं गाथा पुरा विक्रमादित्याय राज्ञे सिद्धसेन-दिवाकरसूरिभिः कथिताऽऽसीत्
पुन्ने वाससहस्से सयंमि वरिसाण नवनवइअहिए (१९९९) । होही कुमरनरिंदो तुह विक्कमराय ! सारिच्छो ॥' इति ।। ततो देव्यन्तर्हिता । आचार्यैरपि यथातथं सर्वमप्येतत् सिद्धराजस्य कथितं, 'भाग्यादधिकं न कदाऽपि प्राप्यतेऽतो वृथा शोकं मा कृथाः' इति सान्त्वनमपि प्रदत्तम् ।
ततः सिद्धराजेनैतत् प्रमाणीकर्तुं नैमत्तिका अप्येतदर्थं पृष्टाः । तैरपि च स्वीयनिमित्तबलेन तत् तथैव दृष्ट्वा राज्ञे निवेदितम् । एतेन सिद्धराजस्य महद् दुःखं जातम् । कुमारपालस्योपरि तस्य हृदये द्वेषभावो जागृतः । तेन चिन्तितं यद् ‘यावदयं जीविष्यति तावन्मे पुत्रो नैव भविष्यति, अत एनमेव प्रथम
★ पृष्ठ - २४स्था टिप्पनी विलोक्यताम् ।
34
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org