________________
घातयामि' । ततस्तेन कुमारपालं मारयितुं बहवः प्रयत्नाः कृताः किन्तु भाग्यबलात् स सर्वदाऽपि रक्षितोऽभवत् ।
I
इतश्च चामुण्डरायशासनकालादेव चौलुक्यानां मालवदेशं जेतुं स्वप्न आसीत् । सिद्धराजजयसिंहो हि स्वपराक्रमेण तं स्वप्नं सफलीकृतवान् । तेन मालवेशो नरवर्मा भीषणयुद्धे जितो मालवदेशे च स्वशासनाधिकारो नियोजितः । यदा स स्वनगरं प्रतिनिवृत्तस्तदा समस्तप्रजाभिस्तस्य विजयं निमित्तीकृत्य महोत्सवः कृतः । सर्वैर्धर्मगुरुभिरपि तदवसरे तस्याऽऽशीर्वचनान्युक्तानि । यदा च राजा हेमचन्द्राचार्याणां पुरतः समागतस्तदा तैरपि तस्याऽऽशीर्वादरूपेण श्लोकोऽयमुक्तः -
भूमिं कामगवीं स्वगोमयरसैरासिञ्च, रत्नाकरा ! मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भीभव | धृत्वा कल्पतरोर्दलानि सरलैर्दिग्वारणास्तोरणान्याधत्त स्वकरैर्विजत्य जगतीं नन्वेति सिद्धाधिपः ॥
तच्छ्रवणेन सिद्धराजस्य हृदयेऽपार आनन्दो जातः । स आचार्यान् सादरं नमस्कृत्य स्वप्रासादं गतः । तत आस्थानमण्डपे तेन धारानगर्या आनीतानि सर्वाण्यपि वस्तूनि प्रदर्शितानि । तेषु चैको ग्रन्थसङ्ग्रहोऽप्यासीत् । तं निरीक्षमाणो राजा भोजव्याकरणं नाम ग्रन्थं दृष्ट्वाऽऽचार्यान् पृष्ट्वान् - 'प्रभो! किमेतदिति । आचार्यैरपि तं ग्रन्थं विलोक्य भोजराजप्रशस्तिः कृता, कथितं च
'भोजराजेन व्याकरणमेतद् विरचितमस्ति, अधुना च गूर्जरदेशे बहुत्रेदमेव व्याकरणं पाठ्यते । एतन्निशम्य सिद्धराजेन चिन्तितं
'मया यत् पराक्रमस्फोरणं कृत्वा मालवदेशो जितस्तत्तु पाशवं बलमासीत् । यद्यहं तस्य सरस्वतीधाम्नः संस्कारितां साहित्यसृष्टि चाऽत्र प्रकटयेयं तर्येव मे वास्तविको जयः' ।
ततस्तेन सभायां स्थितान् पण्डितानुद्दिश्य कथितं
-
35
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org