SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 'किमस्माकं देशे नास्ति तादृशः कोऽपि पण्डितो यः स्वप्रतिभया नूतनं व्याकरणं विरचयेत् तथा चाऽस्मद्देशेऽस्मदीयमेव व्याकरणं पाठ्येत ?' विद्वान् कोऽपि कथं नास्ति देशे विश्वेऽपि गूर्जरे । सर्वे संभूय विद्वांसो हेमचन्द्रं व्यलोकयन् ॥ सर्वैरपि पण्डितैः कथितं - 'राजन् ! व्याकरणादिग्रन्थसृष्टधै किल हेमचन्द्राचार्या एव प्रभविष्णवो नाऽन्यः कश्चित्' । सिद्धराजस्य मनसि तु तेषामेव नामाऽवर्तत किन्तु तेन सर्वेषां साम्पत्यमपि प्राप्तम् । तेनाऽऽचार्येभ्यो विज्ञप्तम् यशो मम तव ख्यातिः पुण्यं च मुनिनायक ! । विश्वलोकोपकाराय कुरु व्याकरणं नवम् ॥* हेमचन्द्राचार्यैरपि तस्य विज्ञप्तिः स्वीकृता काश्मीरादिदेशेभ्यश्च विविधव्याकरणग्रन्था आनायिताः । ततस्तेषां गभीराध्ययनावलोकन-विवेचनादिपुरस्सरं तैरल्पेनैव कालेनाऽष्टाध्याय - द्वात्रिंशत्पादमयं सलघु- बृहद्वृत्तिकं साङ्गोपाङ्गं च व्याकरणं सिद्ध- हेमचन्द्रशब्दानुशासनं नाम विरचितम् । तेन सह धातुपाठः, धातुपारायणं, शब्दकोशोऽभिधानचिन्तामणिनाममालाभिधानः, अनेकार्थसङ्ग्रहः लिङ्गानुशासनं, काव्यानुशासनमलङ्कारचूडामणि- विवेकवृत्तियुतं, छन्दोनुशासनं, निघण्टुः, देशीनाममालाभिधो देश्यशब्दानां कोशः, द्वयाश्रयमहाकाव्यं चाऽपि विरचितम् । + * तेनाऽतिविस्तृत-दुरागम विप्रकीर्ण- शब्दानुशासनसमूहकदर्थितेन । अभ्यर्थितो निरवमं विधिवद् व्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः ॥ - (सिद्धहेमव्याकरणप्रशस्ति:) + एतेषामन्यानां च ग्रन्थानां परिचयोऽत्रैव पुस्तकेऽन्यत्राऽऽलेखितोऽस्ति । कृपया तत्रैव विलोक्यताम् । 36 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
SR No.003028
Book TitleHemchandracharya Jivan Charitam
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2011
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy