________________
सर्वोऽप्येष ग्रन्थसमूहः सिद्धराजस्य राजपुरोहितेन सभापण्डितैश्च त्रिः सूक्ष्मेक्षिकया पठितो 'विशुद्ध एष' इति च कथितम् । एतेनाऽतीवाऽऽनन्दितेन राज्ञा व्याकरणमन्ये च ग्रन्था समहोत्सवं गजस्कन्धमारोप्य समग्रेऽपि नगरे शोभायात्रा विहिता, तत्सत्कार-सम्मानादि च कृतम् । ततस्तेषां ग्रन्थानां शतशः प्रतयो लेखयित्वा देशविदेशेषु प्रहिता, गूर्जरदेशे च सर्वत्र काकलकायस्थनामानं व्याकरणपण्डितं नियोज्य तेषामध्ययनाध्यापनादि प्रारब्धम् ।
सिद्धराजस्य स्वदेशे साहित्यसृष्टेः संस्कारदानस्य च स्वप्ना हेमचन्द्राचार्यद्वारा फलिता जाता इति तद्धृदयं सर्वथा सन्तुष्टं जातम् । तन्मनसि तदास्थाने च हेमचन्द्राचार्याणां स्थानं प्रथमं जातम् । आचार्याणां दर्शनेनैव स चित्तनिर्वृतिं लभते स्म । पदे पदे स हेमचन्द्राचार्याणां मार्गदर्शनमपेक्षते स्म । आचार्या अपि निरपेक्षबुद्ध्यैव तस्य निरवद्यं मार्गदर्शनं कुर्वते स्म । सहैव साहित्यसर्जनं प्रजाभ्यश्च निरवद्यजीवनपद्धतेः शुद्धधर्म-संस्काराणां चोपदेशं कुर्वते स्म । अद्य या गूर्जरादिभाषोपयुज्यते तस्याः मूलं याऽपभ्रंशभाषाऽस्ति तस्या व्याकरणं पूर्णस्वरूपं च तैरेव प्रस्तुतम् । तेन सा भाषा, तत्फलत्वेन च गूर्जरभाषा सुनिबद्धा जाता । गूर्जरदेशस्य स्वीया भाषा प्राप्ता, भाषामाध्यमेन चैव संस्काराणां पोषणं प्राप्तम् । [अतो गूर्जरदेशः सर्वदाऽपि च तेषां कृतज्ञ ऋणी चैवाऽस्ति । एतत् सर्वं विलोक्य सिद्धराजः सर्वथा समाधानं प्राप्तवान् । वारं वारं चाऽऽचार्यान् प्रति कार्तश्यं प्रकटितवान् ।
किञ्च, अत्रेदं चिन्तनीयम् -
हेमचन्द्राचार्यैर्हि स्वगुणानुरक्तसिद्धराजपार्वे - जैनधर्मो राज्याश्रितो भवेत्, राजा च जैनधर्मोपासको भवेत् - इत्येतदर्थं न कदाऽपि प्रयतितं न वा तदर्थं राजकीयचातुर्यमुपयुक्तम् । तथा
37 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org