________________
सिद्धराजं तत्सभासदो वा प्रभावितान् कर्तुं तैः समन्वयवादित्वं नैव प्रकटितं साधितं वा किन्तु तेषां सहजप्रकृतिरेव समन्वयिताया आसीत् । स्वसम्प्रदायस्योन्नतिर्भवेत्, जैनानां च श्रेष्ठत्वं भवेदित्यादि तैः स्वप्नेऽपि नैव विचारितमासीत् । सहैव सिद्धराजोऽपि विचारकः सर्वधर्मान् प्रत्युदारमतवांश्चाऽऽसीत् । स यस्य कस्याऽपि कथनं विना विमर्शेन स्वीकुर्यादित्येतत् सर्वथाऽसम्भवमासीत् । स केवलं गुणानुरागेणैव हेमचन्द्राचार्यान् प्रत्याकृष्टो जातः, यतस्तेन तेष सहजं शीतलताप्रदं तेजः, माधुर्यं, शान्तः समभावः, सर्वदर्शनसङ्ग्रहोऽनन्यसदृशी च विद्वत्तेत्यादयो गुणा दृष्टा अनुभूताश्चाऽऽसन्। स्वभावसिद्धेन गुणानुरागेण स देवबोधसदृशगर्विष्ठपण्डितपुरतोऽपि भूमावेवोपविशति स्म । एवं स्थिते - हेमचन्द्राचार्य राज्याश्रयं प्राप्त प्रपञ्चाः कृताः, सिद्धराजो वा तैश्चाटुकथनादिभिः प्रभावित - इत्यादिकथनं सर्वथाऽयोग्यं द्वयोरपि च प्रमाणपुरुषयोर-न्यायकरम्।
हेमचन्द्राचार्याः हि कर्मयोगितया केवलं निष्पक्षतया सर्वेषां समन्वयकर्तारः समभाविनो लोकप्रियाश्च साहित्यस्रष्टार आसन् । धर्माचार्यतया च ते त्यागिनो विरागिनो निःस्पृहा निष्कर्मिणश्च साधुपुरुषा आसन् । तत्पुरतश्च सिद्धराजो जयसिंहो हि कुलपरम्परया यद्यपि शैवधर्मी आसीत् तथाऽपि राजत्वेन सर्वधर्म-सम्मानकारी निष्पक्षोऽसाम्प्रदायिको न्यायी चाऽऽसीत् । तस्य सभायां सर्वेऽपि धर्माचार्याः समागच्छन्ति स्म, जैनेष्वपि हेमचन्द्राचार्येभ्यः पूर्वमेव तस्य वीराचार्य-मलधारिहेमचन्द्रसूरिप्रमुखाचार्याणां गाढपरिचय आसीदेव । एवंस्थितेऽपि स केवलं हेमचन्द्राचार्याणां गुणैरसाधारणपाण्डित्येन विशालप्रतिभया चैवाऽऽकृष्ट आसीत् । सत्यं तत्त्वं च किम् ? इति ज्ञातुं तस्य तीव्रोत्कण्ठाऽऽसीत्, सा च हेमचन्द्राचार्यरेव शमितेत्यतस्तेनाऽऽचार्या स्वमार्गदर्शकत्वेन स्थापिताः ।
द्वाभ्यामप्याभ्यां युगपुरुषाभ्यां सम्मील्य गूर्जरदेशः साहित्यसंस्कार-समृद्ध्यादिभिः सनाथीकृतः, लोकानां विद्याभिरुचिर्वधिता,
38 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org