________________
सिन्धुदेशनृपं जितवान् काशीपति-कलचूरी-कर्णदेवाभ्यां च सह अवन्तीपतिं भोजराजमपि पराजितवान् । तस्य मन्त्री विमलः अर्बुद(आबु)पर्वतोपरि देवकुलपाटके( देलवाडा) विश्वविश्रुतं विमलवसतिनामकं जिनालय- मारासणशिलया निर्मापितवान् । तस्य त्रयः पुत्रा आसन् । क्षेमराजः*, मूलराजः (द्वितीयः), कर्णदेवश्च । क्षेमराजो हि राज्यग्रहणं निराकृत्य संन्यस्तं गृहीतवान् । मूलराजस्तु यद्यप्यत्यन्तं तेजस्वी आसीत् किन्तु लघुवयस्येव मृतः। अतो भीमदेवः वैक्रमीये ११२० तमे वर्षे कर्णदेवं राज्येऽभिषिक्तवान् । आशापल्ल्या भिल्लान् जित्वा कर्णदेवेन कर्णावती(अहमदाबाद)नगरं वासितम् । कर्णाटकस्य राज्ञो जयकेशिनः पुत्र्या मयणल्लदेव्या तस्योद्वाहो जातः । तयोः पुत्रः सिद्धराजो जयसिंहः आसीत् । अथ क्षेमराजपुत्रो देवप्रसादो यद्यपि कर्णदेवानन्तरं राज्याधिकारी आसीत्, तथाऽपि स्वपितृव्यस्य कर्णदेवस्येच्छा सिद्धराजाय राज्यदाने आसीदतस्तत्समाधानार्थं देवप्रसादेनाऽग्निप्रवेशं कृत्वा प्राणास्त्यक्ताः ।
कर्णदेवेनाऽपि सिद्धराजो जयसिंहोऽष्टवर्षमिते वयस्येव राज्येऽभिषिक्तः । सिद्धराजस्य च देवप्रसादपुत्रेण त्रिभुवनपालेन सह गाढमैत्र्यमासीत् । तौ द्वावपि समानबल-शीलौ समानशौर्यवन्तौ च सहैव सर्वमपि कलाकलापं शिक्षितवन्तौ । एवं सत्यपि त्रिभुवनपालस्तं सेवकवत् सेवते स्म, तदादेशानुसारं च वर्तते स्म ।
अथ च सिद्धराजो जयसिंहो लघुवयस्येव बहून् पराक्रमान् कृत्वा स्वीयराज्यं निष्कण्टकं कृतवान्, बर्बरकनामानं राक्षसकल्पं महाशूरं चाऽपि जितवानासीत् । तस्य शौर्यमनितरसाधारणं, कीतिर्दिगन्तव्यापिनी राजनीतिश्च दिग्विजयिनी आसीत् । स विद्वान् विद्यारसिकश्चाऽऽसीत् । तथाऽपि विक्रमादित्यस्येव शुभ्रं * क्षेमराजपुत्रो देवप्रसादः, तत्पुत्रस्त्रिभुवनपालः, तत्पुत्रश्च कुमारपालः ।
24
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org