________________
यशः प्राप्तुं मालवदेशमिव च गूर्जरदेशमपि संस्कार-सरस्वतीभ्यां समृद्धीकर्तुं तन्मनसि महेच्छाऽऽसीत् । कस्मिन्नपि विषये गूर्जराणां लाघवं तं पीडयति स्म । गूर्जराः सुभटाः, विद्वांसः, साधवः, सुन्दर्यः समाजनेतारश्चेति सर्वेऽपि गौरवान्विता एव स्युरिति समीहा तं निद्रातुमपि न दत्ते स्म । गूर्जरदेशे इदं नास्तीति वचोऽपि तद्धृदये शल्यायते स्म । तस्याऽऽस्थानस्य वैभवं दृष्ट्वा महान्तो नरपुङ्गवाः महापण्डिताश्चाऽपि चकिता भवन्ति स्म । तत्र साधारणः पण्डितस्तु प्रवेष्टुमपि नाऽर्हति स्म । स साहित्यादारभ्य सौन्दर्य यावत् सर्वविषयेष्वपि रसं दर्शयति स्म, दार्शनिकचर्चासु तत्त्वज्ञाने चाऽप्यानन्दं प्राप्नोति स्म । तस्य महेच्छानां पार एव नाऽऽसीत् । स इच्छति स्म यद् गूर्जरदेशे पत्तननगरे चैकः कालिदासः स्यात् यः स्वीयकाव्यैर्गुर्जरदेशस्य गौरवं समुन्नतं कुर्यात्, योः रघुवंशसदृशीं तादृशीं कृतिमेकां रचयेत् यां श्रुत्वा पठित्वा च धन्यंमन्यः सर्वोऽपि गौर्जरो जनश्चौलुक्यवंशीयानां कीर्तिमाकालं गायेत्, यश्च विद्यासंस्कारादिभिनिसर्गत एव सर्वोत्तमः प्रतिभाशाली च साहित्यकारः स्यात्, ईदृशं साहित्यस्वामिनं स शोधयन्नासीत् समग्रेऽपि देशे । स्वान्वये सर्वोत्तमा शिल्पकला, सर्वश्रेष्ठं साहित्य, सर्वोदात्ताः प्रजाश्च वर्तेरन् इति तस्य महाकाङ्क्षाऽऽसीत् । तस्य महिमानं समग्रभारतवर्षस्याऽनेके राजानो भय-प्रशंसा-मैत्र्यादिभावैनिरीक्षमाणा आसन् ।
यदा पत्तने राजपाटिकायां व्रजतस्तस्य हेमचन्द्राचार्यैमिलनं जातं, तैश्च तस्य प्रशस्तिरूपः श्लोकः श्रावितस्तदाऽत्यन्तं प्रसन्नेन सिद्धराजेन चिन्तितं - 'नूनमेते महात्मानो मे सर्वानपि स्वप्नानभिलाषांश्च सफलीकरिष्यन्ति' । अतः स तान् स्वीयास्थाने आमन्त्रितवान् । हेमचन्द्राचार्यैरपि तस्य मनोरथाः स्वप्नाश्च लक्षिताः । अतस्तेऽपि तान् पूरयितुकामा इव प्रत्यहं सिद्धराजस्याऽऽस्थानं गन्तुमारब्धाः ।
25 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org