________________
अथ च वैक्रमीये ११८१तमे संवति सिद्धराजजयसिंहस्य राजसभायां श्वेताम्बराचार्यवादि-श्रीदेवसूरि- दिगम्बराचार्यकुमुदचन्द्रयोर्मध्ये जैनसिद्धान्तानाश्रित्य वादो जात: । तत्राऽयं पण आसीद् यद् यदि श्वेताम्बराः पराजिताः स्युस्तदा तैः सर्वैरपि दिगम्बरत्वं स्वीकरणीयं, यदि च दिगम्बराः पराजिताः स्युस्तर्हि तैः सर्वैरपि देशत्यागः करणीयः * । किन्तु वादिश्रीदेवसूरिभिः प्रतिष्ठापितान् तर्कान् अन्यांश्च चतुरशीतिप्रश्नान् प्रत्युत्तरयितुमक्षमाणां दिगम्बराणां वाचो मुद्रिताः । तैः पराजयं स्वीकृत्य देशत्यागः कृत: । अस्मिंश्च वादावसरे श्रीदेवसूरीणां सहायकत्वेन श्रीहेमचन्द्राचार्या अप्यासन् । समाप्ते च वादे वादिश्रीदेवसूरीन् स्तुवद्भिर्हेमचन्द्राचार्यैरुक्तम् -
यदि नाम कुमुदचन्द्रं नाऽजेष्यद् देवसूरिरहिमरुचिः । कटिपरिधानमधास्यत कतमः श्वेताम्बरो जगति ? ||
अनेन वादजयेन तुष्टो राजा जयमुपलक्ष्य राजविहारनामकं जिनप्रासादं निर्मापितवान् । तत्र च प्रतिष्ठावसरे बहवः पण्डिताः समागता आसन् । तेषु चैको महापण्डितो भागवतो देवबोधोऽप्यासीत् । तस्य विद्वत्ता प्रतिभाचाऽनन्यसाधारणी आसीत् । सहैव स गर्वोन्नतोऽप्यासीत् । तेन हि जिनप्रतिष्ठावसरे स्तुतिं कुर्वता कथितम्
एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात् परः । दुर्वारस्मरघस्मरोरगविषव्यासङ्गमूढो जनः । शेषः कामविडम्बितो न विषयान् भोक्तुं न मोक्तुं क्षमः ॥ स्तुतिश्लोकमेनं श्रुत्वा तत्र स्थिताः सर्वेऽपि जना
* राजमाता मयणल्लदेवी स्वीयपितृपक्षे दिगम्बरमतावलम्बिनी आसीत्, आचार्यकुमुदचन्द्रश्च तत्कुलगुरुरासीत् - इत्यतोऽयं पक्षपातः ॥
26
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org