________________
विस्मयचकिता जातास्तस्य च धन्यवादान् कथितवन्तः । राज्ञाऽपि स स्वीयास्थाने समागन्तुमामन्त्रितः । राज्ञो मुख्य आस्थानकविर्हि श्रीपाल आसीत् । केनचित् कारणेन तस्य देवबोधकविना सह वैमनस्यं जातम् ।
अथैकदा देवबोधो हेमचन्द्राचार्यान् मिलितुं तदुपाश्रयं गतवान् । तदा तत्र श्रीपालः कविरप्युपविष्ट आसीत् । तेनाऽऽचार्या विज्ञप्ताः – “एनं माऽत्राऽऽगन्तुमनुमन्यध्वम्' । तदाऽऽचार्यैः कथितं - ‘एतद्धि नोचितम् । स हि सिद्धसारस्वतो महापण्डितश्च । यदि स निरभिमानीभूय स्वयमेवाऽत्राऽऽगच्छेत् तदा सोऽवश्यं सत्कर्तव्यः'।
तत आगतं तं देवबोधपण्डितं हेमचन्द्राचार्याः सत्कृत्य स्वसमीप एवोपवेशितवन्तः समयोचितवचनैश्च तं प्रीणितवन्तः। एतेन तुष्टः स महापण्डितः हेमचन्द्राचार्यान् स्तुवन् कथितवान् -
पातु वो हेमगोपालो दण्ड-कम्बलमुद्वहन् ।
श्लोकार्धमेनं श्रुत्वा श्रीपालः कविरन्ये च तत्र स्थिता जनाः किञ्चिद् रोषमिश्रितमाश्चर्यमनुभूतवन्तो यावत् तावत् तेनाऽन्यच्छ्लोकार्धमपि कथितं -
षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ एतन्निशम्य सर्वेऽपि प्रसन्ना जातास्तं च महापण्डितं भूयो भूयः प्रशंसितवन्तः ।
तत आचार्यैरपि तेन सह सम्भाषणं कृतं श्रीपालकवेस्तस्य च वैमनस्यं निवार्य द्वयोरपि मैत्र्यं साधितम् । यतो हि साधोः प्रथमो धर्मस्तु वैरनिवारणमेव विद्यते । तथा हेमचन्द्राचार्याणामपि जीवनमन्त्रः सर्वत्र सौमनस्यं समन्वयश्चैवाऽऽसीत् ।
प्रवृत्तं सर्वं ज्ञात्वा सिद्धराजोऽपि प्रसन्नो जातस्तस्य वृत्तिश्च
27 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org