________________
हेमचन्द्राचार्यान् प्रत्यधिकाधिकं प्रह्वीभूता । यद्यपि तस्य देवबोधकवेः श्रीपालकवेश्चेत्युभयोरप्याशाऽऽसीत्, किन्तु देवबोधस्य प्रतिभावत्त्वेऽपि गर्विष्ठत्वात् श्रीपालकवेश्च साधुचरितत्त्वे ऽपि तादृशप्रतिभारहितत्वात् स आचार्यान् प्रत्येव समाकृष्टः ।
इतश्चाऽन्यान्यकार्यैः सह हेमचन्द्राचार्याणां विद्याकार्यमपि सन्ततं प्रवरीवर्ति स्म । आदिनं विविधग्रन्थानां परिशीलनं, संशोधनं, नूतनग्रन्थसर्जनं लेखनं चेत्येव तेषां प्रवृत्तिरासीत् । तथा तेषां जीवनमत्यन्तं विशुद्धमासीत्, तेषां व्यवहारो मनो-वाणीकर्मणामद्वैतपूर्वकः संयमयुतश्चाऽऽसीत्, एतेन सहोच्चाध्यात्मिकी भूमिकां, सर्वजीवै: सहाऽऽत्मौपम्यं, शत्रूनपि जयतो विनय-नम्रतामृदुतार्जवादिगुणांश्च दृष्ट्वा सनृपाः सर्वेऽपि जना अमन्त्रमाकर्षणमनुभवन्त इव तेषां समीपमागच्छन्ति स्म सर्वत्र च तान् स्तुवन्ति
―
आचार्या बहवोऽपि सन्ति भुवने भिक्षोपभोगक्षमा नित्यं पामरदृष्टिताडनविधावत्युग्रजाग्रत्कराः । चौलुक्यक्षितिपालभालदृषदा स्तुत्यः स एकः पुनर्नित्योत्तेजितपादपङ्कजनख: श्रीहेमचन्द्रो गुरुः ॥
श्रीहेमचन्द्राचार्याणां हार्दिकी भावना तु समग्रेऽपि भारतवर्षे विहृत्य लोकानुग्रहकरणस्याऽऽसीत्, किन्तु राज्ञः सिद्धराज - जयसिंहस्याऽन्येषां चोपरोधात् तथागूर्जरदेशे विशेषतश्चाऽणहिल्लपुरपत्तने वासेऽधिकं परोपकारादिलाभं दृष्ट्वा ते तत्रैव स्थिताः । तत्र च प्रत्यहं राजास्थाने गच्छतां तेषां समुदारदृष्टि-सर्वग्राहिविद्वत्ता- तीव्रमेधाऽनन्यसदृशकाव्यप्रतिभा-समन्वयवादिताप्रमुखगुणानामधिकाधिकपरिचयेन राजा तान् प्रति विशेषसमादरवान् जातो, जातश्चाऽयं मणि- काञ्चनसंयोग उभयोः, यतः एक आसीत् युगनिर्माताऽन्यश्च संस्कारनिर्माता, एकः समरविजयी अन्य:
28
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org