________________
स्वविजयी, एकः काव्य-कलाप्रियोऽन्यः काव्य-कलासर्जकः, एकः प्रचण्डशक्तिमान् अन्यस्तु असाधारणपाण्डित्यवान् । राज्ञो हि स्वस्वप्ना आचार्यै रेव फलिष्यन्तीति श्रद्धा दृढा जाता ।।
अथ च राज्ञो वृत्तिं तान् प्रत्येव प्रह्वीभूतां, तेषां च सर्वत्राऽधिकं महत्त्वं दृष्ट्वा बहूनां हृदयेषु ईर्ष्याग्निः प्रज्वलितः । चिन्तितं च तैर्यद् 'यद्येवमेव राजा एतादृशान् महत्त्वयुतान् करिष्यति तदाऽस्माकं काऽपि गणना नैव भविष्यति' । अतस्ते 'कथमपि हेमचन्द्राचार्याणां छिद्रान्वेषणं कृत्वा राज्ञे तन्निवेदनीयं राज्ञा च तिरस्कारणीयास्ते' इत्याशया छिद्रान्वेषणे प्रवृत्ताः ।
इतश्च चैत्यपरिसरे प्रत्यहं हेमचन्द्राचार्याणां धर्मोपदेशरूपाणि प्रवचनानि प्रवर्तन्ते स्म । बहवः श्रावकजना अन्येऽपि चाऽऽचार्यगुण-वाण्यादिभिः समाकृष्टाः प्रधानपूरुषास्तानि श्रोतुं समागच्छन्ति स्म । तदैकदाऽऽचार्यैः स्थूलभद्रमुनेः कथा श्राविता यथा - कथं स्थूलभद्रेण संसारत्यागः कृत, कथं चाऽऽत्मसाधनां कृत्वा कामविजयो जितेन्द्रियत्वं च साधितं, ततश्च कथं पूर्वपरिचितवेश्यागृहे चातुर्मास्यं कृत्वा षड्रसयुतं भोजनं गृह्णताऽपि मनसि स्मरस्याऽवकाशो न दत्तः प्रत्युत सा वेश्या धर्ममार्गे प्रतिबोध्य व्रत-नियमादि ग्राहितेति । धर्मकथां श्रुत्वेमां जनाः प्रसन्ना जाताः स्थूलभद्रमुनेश्च वैराग्यं प्रशंसितवन्तः । किन्तु तत्राऽवसरे कश्चनेालुरपि तत्रोपस्थित आसीत् । तेन च 'लब्धं मयेदं छिद्र'मिति हृष्यता द्वितीयदिने राजपर्षदि सर्वेषां पुरतः कथितं 'यदेते जैनाचार्याः कीदृगसमञ्जसं कथयन्ति ननु ? किं कश्चन वेश्यागृहेऽप्युषित्वा षड्रसमयं भोजनमपि च कृत्वा विरागी स्थातुं शक्तः खलु ? श्रूयताम् -
विश्वामित्र-पराशरप्रभृतयो ये चाऽम्बु-पत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।
29 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org