________________
राग-द्वेष-भयामयान्तक-जरा-लोलत्व-लोभादयो नाऽलं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥ यो विश्वं वेद वेद्यं जननजलनिधेर्भङ्गिनः पारदृश्वा पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् । तं वन्दे साधुवन्द्यं सकलगुणनिधि ध्वस्तदोषद्विषन्तं बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ॥ भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥
यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद् भवान्, एक एव भगवन्नमोऽस्तु ते ॥ इत्यादि ॥
एतदवसरानन्तरं भावबृहस्पत्यादीनां सर्वेषामपि हेमचन्द्राचार्यान् प्रति हार्दो बहुमानभावः सञ्जातः ।
अथ च ततः प्रतिनिवृत्ताः सर्वेऽपि यथाकालं पत्तनं समागताः । ततो राज्ञा आचार्येभ्यो विज्ञप्तं 'प्रभो ! अहं योगमार्गमभ्यसितुमिच्छामि । यदि मयि योग्यता स्यात् तर्हि कृपयोपदिशन्तु' । तदा गुरुभिरपि तत्प्रार्थनं स्वीकृत्य योगशास्त्रं विरचितं स्वयमेव च समग्रमपि तद् राज्ञः शिक्षितम् । द्वादशप्रकाशमयेऽस्मिन् योगशास्त्रे मार्गानुसारितागुणाः यम-नियमादियोगाङ्गानि श्रावकयोग्यद्वादशव्रतानि च सविस्तरं वर्णितानि सन्ति । ततस्तथैव तस्य भक्तिमार्गारार्धनार्थं विंशतिप्रकाशमयो वीतरागस्तवोऽपि विरचित आचार्यैः । एतान् द्वात्रिंशदपि प्रकाशान् प्रत्यहं प्रात:काले भणित्वैव कुमारपालो ऽन्न-जलादिकं गृह्णाति स्म । एवं च योगशास्त्रस्य सततमभ्यासेन योगमार्गे सोऽग्रेसरोऽभवत् स्ववंशपरम्पराक्रमागतं (Heridity) लूतारोगमपि च योगाभ्यासेन शमितवान् ।
Jain Education InternationaFor Private 52ersonal Use Only www.jainelibrary.org
-