________________
त्यागस्य प्रतिज्ञा कारिता। कुमारपालेन सपद्येव तदङ्गीकृत्य सोमनाथ-महादेवमन्दिरस्य मूलशिल्पिनोऽन्वये जातः शिल्पी अन्वेषितस्तस्य च प्रभासतीर्थक्षेत्रे यथाशीघ्रं नूतनं सोमनाथमहादेवमन्दिर निर्मातुमनुरुद्धवान् । मन्दिरनिर्माणार्थं च कुमारपालेन राज्यकोशाद् विपुलं धनमर्पितम् । यदा च देशजनैर्जीर्णोद्धारवृत्तमिदं ज्ञातं तदा तैरपि पूर्णश्रद्धया भक्त्या च यथाशक्ति धनमर्पितम् । शिल्पिनाऽपि राज्ञो देशजनानां च भक्त्या श्रद्धया च प्रोत्साहितेन शीघ्रमेव नूतनं रमणीयं विशालं च मन्दिरं निर्मितम् । ततो राज्ञा मन्दिरस्य मुख्यार्चकादिभिश्चर्चयित्वा ज्यौतिषिकैः प्रतिष्ठादिनमुहूर्त-लग्नादि निर्णीतमुद्धोषितं च सर्वत्र ‘सोमनाथमहादेवप्रतिष्ठार्थं सर्वैरपि प्रभासतीर्थे समागन्तव्य'मिति । ततस्तेन हेमचन्द्राचार्येभ्योऽपि प्रतिष्ठायामागमनार्थं विज्ञप्तिः कृता तैश्च सहर्ष स्वीकृत्य कथितं - 'भवान् सपरिवारस्तत्र प्राप्नोतु वयं तु शत्रुञ्जयादितीर्थयात्रां कृत्वा समागमिष्यामः' । एतज्ज्ञात्वा तु सर्वेभ्योऽपि तद्विरोधिभ्योऽधिकमाश्चर्यं सञ्जातम् ।
ततो यथाकालं सर्वेऽपि राजामात्यादयः सपरिवारास्तत्र प्राप्ताः । आचार्या अपि पादचारेण तीर्थयात्रां कुर्वाणाः प्रतिष्ठाकाले तत्रोपस्थिताः । एतेन भावबृहस्पति-विश्वेश्वरकवि-प्रमुखा अतीव प्रसन्ना जाताः । वैक्रमे १२११तमे संवति महामहेनैषा प्रतिष्ठा जाता । तदा च हेमचन्द्राचार्यैर्भावबृहस्पत्यादिभिः सह शिवपुराणवर्णितविधिना महादेवस्य आह्वाना-ऽवगुण्ठनमुद्रान्यास-विसर्जनादि कृत्वा तत्प्रतिष्ठा कृता । ततो *महादेवद्वात्रिंशिकयाऽन्यैश्च स्तोत्रैर्भावपूर्णा स्तुतिरपि विहिता - यथा -
त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं
साक्षाद् येन यथा स्वयं करतले रेखात्रयं साङ्गलि । * महादेवद्वात्रिंशिकाऽत्रैव ग्रन्थेऽन्यत्र प्रदत्ताऽस्ति ।
51
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org