________________
बहवश्चमत्कारपूर्णप्रसङ्गा अपि हेमचन्द्राचार्यानाश्रित्य वर्णिताः सन्ति । तेऽत्र चरिते नैव समाविष्टाः । अपि च, गूर्जरदेशनृपतेः सिद्धराजजयसिंहस्य तथा कुमारपालस्याऽपि चरितप्रसङ्गाः केचनाऽत्र हेमचन्द्राचार्यचरिते समाविष्टाः सन्ति, यतस्तेषां त्रयाणामपि महापुरुषाणां जीवनान्यन्योन्यसम्मीलितानि पृथक्कर्तुं च नैव शक्यानि।
किञ्च, पाश्चात्यविदुषा बुहलर-इत्यनेनाऽन्यैश्च कैश्चित् तेषां जीवनप्रसङ्गाः लिखिताः सन्ति । किन्तु ते सर्वेऽपि विद्वांसः प्रायो जैनपरम्पराया जैनसाध्वाचाराणां चाऽनभिज्ञाः आसन् । अतस्तैः स्वमतिकल्पनया तत्र तत्र यत्किञ्चिदसमञ्जसं वर्णनं कृतम् । तच्चेह सर्वथा नाऽऽदृतम् ।।
प्रान्ते मम मनोगतभावान् प्रकटीकृत्य समर्थयामि । एतच्चरितालेखने मां प्रवर्तयितृभिर्मम पूज्यगुरुवर्यैर्बहून् ग्रन्थानर्पयित्वा महत्त्वपूर्णवृत्तानि च कथयित्वा भृशमुपकृतोऽस्मि । अतो नितरां तेषामृणभारं धारयामि । चरितालेखनव्याजेन सर्वानपि ग्रन्थानेतान् पठतो मे हेमचन्द्राचार्याणामन्तरङ्गपरिचयो जातस्तेन च मनसि ये केचन विकल्पा असमञ्जसभावाश्चाऽऽसन् ते सर्वेऽपि स्वयमेवोपशान्ताः । सहैव च जीवने सर्वत्राऽपि समेषु विषमेषु च प्रसङ्गेषु समत्वं कथं धार्य, समन्वयनं कथं कर्तव्यं, स्वस्थतया च कथं स्थेयमित्यादयो महत्त्वपूर्णा शिक्षापाठाः प्राप्तास्तथा चरितालेखनमेतत् कुर्वता नितान्तं चित्तप्रसन्नता हृदयप्रफुल्लितता च प्राप्ता । एते सर्वेऽपि लाभा नन्दनवनकल्पतरुमाध्यमेन संस्कृतसाहित्यवाचकानामपि स्युरित्याशासमानो विरमामि ।
63
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org