________________
(सं०) तिलानां तिलत्वं तावत् परं यावत् न स्नेहा: गलन्ति । स्नेहे प्रणष्टे ते एव तिलाः तिलाः भ्रष्ट्वा खलाः भवन्ति । बम्भ ते विरला के वि नर जे सव्वंग-छइल्ल ।। जे वंका ते वंचयर जे उज्जुअ ते बइल्ल ॥४-४१२॥ (सं०) ब्रह्मन् ! ते विरलाः केऽपि नराः ये सर्वाङ्गच्छेकाः । ये वक्रा ते वञ्चकाः ये ऋजवः ते बलीवर्दाः ।।
पिउसंगमे कउ निद्दडी पिअहों परोक्खहों केम्व । मइँ बिन्नि वि विन्नासिआ निद्द न एम्व न तेम्व ॥४-४१८॥ (सं०) प्रियसङ्गमे कुतः निद्रा प्रियस्य परोक्षे कथम् । मया द्वे अपि विनाशिते निद्रे न एवं न तथा । सरिहिँ न सरेहिँ न सरवरेहिँ न वि उज्जाण-वणेहिं । देस रवण्णा होति वढ ! निवसंतेंहिँ सुअणेहिँ ॥४-४२२॥ (सं०) सरिद्भिः न सरोभिः न सरोवरैः नाऽपि उद्यानवनैः । देशाः रम्याः भवन्ति मूर्ख ! निवसद्भिः सुजनैः ॥ बाह विछोडवि जाहि तुहुँ हउ तेवइ को दोसु । हिअयट्ठिउ जइ नीसरहि जाणउँ मुंज सरोसु ॥४-४३९॥ (सं०) बाहुं त्यक्त्वा यासि त्वं, भवतु तथा, को दोषः ? हृदयस्थितः यदि निःसरसि जानामि मुञ्ज ! सरोषम् ॥
__ इत्यादयः ॥ अत्र व्याकरणे प्रदत्तानामुदाहरणानां वैविध्यं दृष्ट्वैव ज्ञायते यद् हेमचन्द्राचार्याणां प्रसरः सर्वसामान्यजनसमूहेऽप्यासीत् । एतादृश्युदाहरणानि सङ्गह्य तैः सर्वोऽपि लोकसमूहः शौर्य-प्रेमनीत्यादिगुणैः सनाथीकृत इव ।
90 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org