SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अतः शोकं मा कार्षीत् । किञ्च, भवतो गमनकालोऽपि केवलं षण्मासावशिष्ट एव । अतोऽधिकाधिकसत्कार्याणि कृत्वा मरणं सफलीकरोतु' । ततस्तैः शिष्यगणेन नृपेणाऽन्यैश्च सह नम्रतया क्षमायाचनं कृतम् । सकलजगज्जीवैः सहाऽपि क्षमायाचनं कृतं, यथा - क्षमयामि सर्वान् सत्त्वान्, सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषा सर्वेषु त्वदेकशरणस्य मे ।। अर्हत्सिद्ध-साधु-धर्मस्वरूपचतुःशरणं स्वीकृतं - त्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान् मुनीन् । त्वच्छासनं च शरणं प्रतिपन्नोऽस्मि भावतः ॥ ततः शुद्धात्मस्वरूपे लयं प्राप्तानां तेषां मुखान्मृदुमधुरस्वरेण श्लोकावलिः प्रस्फुटिता - न शब्दो न रूपं न रसो नाऽपि गन्धो न वा स्पर्शलेशो न वर्णो न लिङ्गम् । न पूर्वापरत्वं न यस्याऽस्ति सज्ञा स एकः परात्मा गतिर्मे जिनेन्द्रः ।। आत्मन् ! देवस्त्वमेव त्रिभुवनभवनोद्योतदीपस्त्वमेव ब्रह्मज्योतिस्त्वमेवाऽखिलविषयसमुज्जीवनायुस्त्वमेव । कर्ता भोक्ता त्वमेव व्रजसि जगति च स्थाणुरूपस्त्वमेव स्वस्मिन् ज्ञात्वा स्वरूपं किमु तदिह बहिर्भावमाविष्करोमि ? ॥ इत्यादि ॥ शनैः शनैस्तेषां नेत्रे परमशान्तौ निमग्ने इव निमीलिते। वदनं तेजसा प्रोल्लसितम् । निर्दिष्टे च क्षणे शुद्धस्वरूपानुसन्धाने लीनानां तेषां प्राणा योगप्रक्रियया ब्रह्मरन्ध्रान्निर्गताः । गूर्जरदेशस्य संस्कारनेतारो महातपस्विनः परमसंयमवन्तोऽनन्यसाधारणविद्वांसो Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
SR No.003028
Book TitleHemchandracharya Jivan Charitam
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2011
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy