________________
ततश्च ये जनाः सर्वथा नास्तिकतया तीर्थकरगणधरादिमहापुरुषाणामस्तित्वमासीत् पुरा - इति न मन्यन्ते स्म तेऽपि हेमचन्द्राचार्याणां भव्यव्यक्तित्वस्य दर्शनं कृत्वा सर्वथाऽऽस्तिका भवन्ति स्म – 'अस्मिन् कलिकालेऽपीदृशा महापुरुषा यदि विद्यन्ते तर्हि पूर्वं तीर्थकर-गणधरादयो महापुरुषा अवश्यं सञ्जाता एवे'ति श्रद्दधति स्म च ।
अथाऽत्र जगति जातानां केषाञ्चिज्जन्म भव्यं भवति, श्रेष्ठतया जीवितानां केषाञ्चिज्जीवनमपि भव्यं भवति, सहजतया च सर्वमपि त्यक्त्वा परलोकं सञ्चरतां केषाञ्चिन्मृत्युरपि महोत्सवायते। किन्तु त्रयेऽपि जन्म-जीवन-मृत्यवः केषाञ्चिद् विरलानामेव भव्या भवन्ति । हेमचन्द्राचार्या ह्येतेषां विरलानामन्यतमा आसन् । उत्तमतया जन्म गृहीत्वा स्वपरकल्याण एव च जीवनं व्यतीत्य चतुरशीतिवर्षायुष्काणां तेषां स्वर्गमनकालः सन्निहित आसीत् । तैर्हि पूर्वमेव स्वमरणसमयः शिष्याणां कुमारपालस्य च कथित आसीत् । एतच्च ज्ञानं तेषां योगाभ्यासस्य फलमासीत् । जीवनेऽर्जितानां सकलानामपि सिद्धीनां परीक्षा मृत्युकाल एव भवति । हेमचन्द्राचार्या हि तदर्थं सर्वथा सन्नद्धा आसन् ।
निश्चितदिने तैः शिष्यगणः कुमारपालः सकलसङ्घश्च स्वस्थाने एकत्र कृतः । सर्वेऽपि तत्प्रयोजनं जानन्ति स्मैव । अतः सर्वेऽप्युदासाः शोकमग्नाश्चाऽऽसन् । शिष्यवृन्दं स्तब्धतयैकतः स्थितमासीत् । राजाऽपि गुरुचरणयोर्मस्तकं नामयित्वोपविष्ट आसीत् । सङ्घश्च सजलनेत्र आसीत् । गुरुभिः सर्वेऽपि सप्रेमदृष्ट्या निरीक्षिताः सम्भाषिताश्च । शिष्याणामपि भवबीजाङ्करनाशार्थं साधनमाराधनं च कर्तुमनुशिष्टम् । ततो राज्ञे कथितं - 'राजन् ! भवान् कुलपरम्परया परममाहेश्वरो धर्माचरणेन च परमार्हतो भूत्वाऽपि जीवने परममानवोऽपि सञ्जातः । भवता निजजीवनं सफलीकृतमस्ति ।
60 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org