________________
एतादृशेनाऽऽन्तरगुणवैभवेन कुबेरायमाणानां तेषां बाह्यः शारीरवैभवोऽपि प्रशस्तो योगसाधनया तपसस्तेजसा च देदीप्यमान आबाल-वृद्धानां च सर्वेषामाकर्षणकारणमासीत् । अत्राऽर्थे च तेषामेव समकालीनाः श्रीसोमप्रभाचार्यास्तान् यथादृष्टं यद् वर्णयन्ति तदेव पर्याप्तम् -
*तुलियतवणिज्जकंती सयवत्तसवत्तनयणरमणिज्जा । पल्लवियलोयलोयण-हरिसप्पसरा सरीरसिरी ॥१॥ आबालत्तणओ वि हु, चारित्तं जणियजणचमक्कारं । बावीसपरिसहसहण-दुद्धरं तिव्वतवप्पवरं ॥२॥ मुणियविसमत्थसत्था निम्पियवायरणपमुहगंथगणा । परवाई पराजयजायकित्ती मई जयपसिद्धा ॥३॥ धम्मपडिवत्तिजणणं अतुच्छमिच्छत्तमुच्छिआणं पि । महु-खीरपमुहमहुरत्तनिम्मियं धम्मवागरणं ॥४॥ इच्चाइगुणोहं हेमसूरिणो पेच्छिऊण छेयजणो । सद्दहइ अदिढे वि हु तित्थंकरगणहरप्पमुहे ॥५॥
इत्यादि ॥ * तुलिततपनीयकान्तिः, शतपत्रसपत्ननयनरमणीया । पल्लवितलोकलोचन-हर्षप्रसरा शरीर श्रीः ॥११॥ आबालत्वतोऽपि खलु, चारित्रं जनितजनचमत्कारम् । द्वाविंशतिपरीषहसहनदुर्धरं तीव्रतपःप्रवरम् ॥२॥ ज्ञातविषमार्थसार्था, निर्मितव्याकरणप्रमुखग्रन्थगणा । परवादिपराजयजातकीर्तिः मतिर्जगत्प्रसिद्धा ।।३।। धर्मप्रतिपत्तिजननमतुच्छमिथ्यात्वमूच्छितानामपि । मधु-क्षीरप्रमुखमधुरत्वनिर्मितं धर्मव्याकरणम् ॥४॥ इत्यादिगुणौघं हेमसूरेः प्रेक्ष्य छेकजनः । श्रद्धधाति अदृष्टानपि खलु तीर्थकर-गणधरप्रमुखान् ॥५॥
(कुमारपालप्रतिबोधः)
59 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org