________________
स्वोपज्ञविशदतमवृत्तौ च निरूपितानि । तेषां भाषाऽत्यन्तं परिमिता शब्दाडम्बरशून्या सहजा सरला चाऽस्ति । निरूपणमपि नाऽतिसङ्क्षिप्त-विस्तृतमस्ति । अत्र ग्रन्थे तैः प्रमाणानि नयान् सोपायांश्च बन्ध-मोक्षादीन् परमपुरुषार्थोपयोगिनो विषयांश्चर्चयित्वाऽनेकान्तवादस्य नयवादस्य च शास्त्रीय निरूपणं कृतमस्ति । एतच्च तेषां भारतीयप्रमाणशास्त्रक्षेत्रे विशिष्टं प्रदानमस्ति । तुलनात्मकदृष्ट्या दर्शनानामध्ययनं कुर्वतां जिज्ञासूनां कृते ग्रन्थस्याऽस्याऽध्ययनमतीव महत्त्वमावहति । यतोऽत्राऽऽचार्यैर्दिङ्नाग-धर्मकीर्तिप्रमुखबौद्धविदुषां, कणाद-भासर्वज्ञव्योमशिव-श्रीधराऽक्षपाद-वात्स्यायनोद्योतकर-जयन्तवाचस्पतिमिश्रशबर-प्रभाकर-कुमारिल-मुख्यवैदिकविदुषां च ग्रन्थानां चार्वाकदर्शनस्य च विदुषो जयराशिभट्टस्य तत्त्वोपप्लवसिंहग्रन्थस्य पदार्था विशदतया चर्चिताः सन्ति । अयं हि ग्रन्थो यद्यपि सम्पूर्णो न प्राप्यते तथाऽपि ऐतिहासिक- दृष्ट्या तस्य जैनतर्कसाहित्ये भारतीयदर्शनसाहित्ये च विशिष्टं स्थानमस्ति । ७. त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् -
महाभारतमुद्दिश्य विद्वद्भिर्घोषितं यद् - "यदिहाऽस्ति तदन्यत्र, यन्नेहाऽस्ति न कुत्रचित् ॥"
इदं च वचनं त्रिषष्टिशलाकापुरुषचरितमहाकाव्यस्य विषयेऽपि समानमेव । यतस्त्रिषष्टिशलाका-पुरुषचरितं नाम जैनसिद्धान्त-कथेतिहास-पौराणिककथा-तत्त्वज्ञानादीनां सर्वसङ्ग्रहः । षट्त्रिंशत्सहस्रश्लोकप्रमाणेऽस्मिन् ग्रन्थे हेमचन्द्राचार्याणां सुधावर्षिण्या वाण्या गौरवं माधुर्यं च पदे पदेऽनुभूयते । अत्र त्रिषष्टेरुत्तमपुरुषाणां चरितानि निबद्धानि सन्ति । ते चोत्तमपुरुषाः २४ तीर्थकराः, १२ चक्रवर्तिनः, ९ वासुदेवाः, ९ प्रतिवासुदेवाः ९ बलदेवाश्च सन्ति। सहैव बहून्यवान्तरचरितान्यपि अत्राऽऽचार्यैर्यथायथं निवेशितानि
77
Jain Education InternationaFor Private '&'Personal Use Only www.jainelibrary.org