________________
विक्रमस्य सप्तमे शतके समग्रे भारते विचरितो ह्यु-एनत्सांगः स्वपरिभ्रमणलेखेषु मो-ला-पो (मालवः), फ-ल-पी (वलभी), कु-चे-लो (गूर्जर:-भिन्नमालः), सु-ला-चा (सुराष्ट्रा), युह-शं-तो (उज्जयन्तः-गिरिनगरम्) इत्यादीनुल्लिखन् कथयति यदेते प्रदेशा अतीव समृद्धाः सन्ति । अत्र बौद्धानां शतशो विहाराः सन्ति, अन्येषामपि च धर्माणां मन्दिरादिस्थानानि सन्ति - इति ।
इतश्च भिन्नमाल(श्रीमाल)प्रदेशे गूर्जरज्ञातीया राजपुत्राः क्षत्रियाश्च किञ्चिदिव दुर्बला जाता आसन् । अतस्ते शनैः शनैस्ततो निःसृत्याऽऽनर्त-सौराष्ट्रादिप्रदेशेषु समागत्य तत्रैव वसन्ति स्म । अत आनर्तप्रदेशोऽपि शनैः शनैर्विकासं प्राप्तः । एतेन जैनसाधवोऽपि तत्र विहरन्तः समागताः । तत्रत्यांश्च जनान् धर्मसंस्कारादिषु मार्गदर्शनं कृतवन्तः । तथा च स प्रदेशो धर्मसंस्कारादिभिः समृद्धो जायमान आसीत्।
अथ च तदात्वे श्रीमालदेश-लाटप्रदेश-सौराष्ट्रप्रदेशवलभीप्रदेशादिषु जैनानां बौद्धानां च मध्ये बहवो वाद-विवादा जायन्ते स्म । बौद्धाश्च राज्याश्रयं प्राप्तत्वात् अधिकसमर्था आसन्, अतोऽपि जैनास्तेषां साम्मुख्यं कर्तुं किञ्चिदिवाऽशक्ता आसन् । तावता वलभीप्रदेशे स्थितेन प्रभावकेण महाजैनाचार्येण मल्लवादिगणिक्षमाश्रमणेन बौद्धैः सह वादं कृत्वा ते जिताः । तत्राऽयं पणबन्ध आसीत् -- यदि जैनाः पराजिता भवेयुस्तदा तैबौद्धानां शिष्यत्वमङ्गीकर्तव्यं, यदि च बौद्धाः पराजिताः स्युस्तदा तैर्देशत्यागः कर्तव्यः । ततश्च बौद्धा (श्रीमालदेशाल्लाटप्रदेशं यावत्) देशत्यागं कृत्वा निर्गताः ।*
इतश्च विक्रमस्य नवमे शतके वलभीप्रदेशस्य
* बौद्धानां पश्चिमभारतान्मल्लवादिना, दक्षिणभारतादकलङ्कदेवेन, शेष
भारताच्च शङ्कराचार्येण देशत्यागः कारितः ।।
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org