________________
तुरुष्कैर्भङ्गः कृतः । अन्यतः पूर्वोत्तरभारते शङ्कराचार्यस्य प्रभावेण शिष्टा जैना अपि ततो निर्गत्य पश्चिमभारतं समागताः । श्रीमालप्रदेशाच्चाऽधिकाधिक-गूर्जरा आनर्तादिप्रदेशेषु समागताः । अतस्तदात्व एव गूर्जराणामाधिक्यात् स प्रदेशः गूर्जरदेशतया प्रसिद्धो जातः । गूर्जरेष्वपि मुख्यतः चापोत्कट (चावडा) वंशीयाः क्षत्रिया एव तत्र प्रबला आसत्, अतस्ते एवाऽत्र प्रदेशे शासका जाताः ।
प्रारम्भे तु गूर्जरदेशो लघुरेवाऽऽसीत्, किन्तु शनैः शनैः तच्छासकानां शौर्य-पराक्रम-नीतिबलेन तस्य सीमानो विस्तार प्राप्ताः । देशस्य प्रजाभिरपि निकटस्थ-मालवदेश-श्रीमालदेशवलभीप्रदेशादीनां संस्कृति-संस्कारादीनामाधारेण स्वसंस्कृतिसंस्कारादयोऽङ्करिता वृद्धि प्रापिताश्च । किन्तु तासां(प्रजानां) धर्मसंस्कार-प्रेम-दया-ऽहिंसादयस्तु जैनमुनिभिरेवाऽऽमूलमारोपिता अङ्करिताः पल्लविताश्च । जैनाचार्यैहि जानद्भिरजानद्भिर्वा गूर्जरप्रजानां मानसं संस्कर्तुं पूर्णतया प्रयतितमस्ति । यतः पूर्वोत्तरदेशेभ्यो निःसृतानां जैनानां प्रथममाश्रयस्थानं राजस्थानप्रदेशस्ततश्च गूर्जरदेशो जातोऽतस्तौ द्वावपि देशौ संस्कर्तुं धर्मसमृद्धं च कर्तुं जैनसाधुभिः स्वीयं सर्वं सत्त्वं व्यापारितमिति यदि कथ्येत तदा नाऽस्ति अतिशयोक्तिः ।
इतिहासविदोऽपि वदन्ति यद् भिन्नमाल-वलभ्योः पतनानन्तरं गूर्जरदेशं गूर्जराणां शासनं च स्थापयितुं द्रढयितुं च जैनमन्त्रिभि नश्रेष्ठिभिश्चैवाऽत्यधिकतया प्रयतितं साफल्यं च प्राप्तमस्ति । कथनमिदं सर्वथा वास्तविकमस्ति । गूर्जराणां प्रथमस्य राज्ञो वनराज-चापोत्कटस्य मन्त्रिणो जाम्बश्रेष्ठिन आरभ्य आधुनिकसमये श्रेष्ठिश्रीलालभाई-दलपतभाई इत्येनं तथा श्रेष्ठिश्रीकस्तूरभाई-लालभाई-इत्येनं यावत् पश्येम तदा ज्ञायते
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org