SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ यद् राजकीयपरिस्थितिषु जैनानां वर्चस्वं प्रभावश्च कीदृशोऽस्तीति । यद्यप्यैदंयुगीना जैनश्रेष्ठिनो न तथा राजकीयप्रभावयुताः सन्ति तथाऽपि तथ्यमेतत् तु जगद्विदितमस्ति यद् भारतदेशस्याऽधिकांशं वाणिज्यं जैनश्रेष्ठिन एव कुर्वन्तीति । एवं च गूर्जरदेशस्य तत्प्रजानां च संस्करणे समृद्धीकरणे च मुख्यभागो जैनानामस्ति । ब्राह्मणा-नामन्येषामपि धर्मिणां तत्र भागोऽस्त्येव - इति तु सर्वथा स्वीकार्यमेव, तथाऽपि अहिंसादया-निरुपद्रविता-दिगुणान् प्रजानां मानसे प्रवाहयितुं स्थिरीकर्तुं च जैनाचार्यैर्यथा यावच्च प्रयतितं तथा तावच्च नाऽन्यैः । अद्यत्वे गूर्जरराज्यादन्यानि राज्यानि पश्येम, यत्र पुरा ब्राह्मणादीनामेव वर्चस्वमासीत्, तत्र हिंसा-मांसभक्षण-मद्यपानादयः सर्वथा सुलभाः । ननु ब्राह्मणजातीया एव मांसाहारं कुर्वाणा अपि दृश्यन्ते कुत्रचित् । एतद्वैपरीत्येन यत्र पूर्वं जैना आधिक्येनोषितास्तत्राऽहिंसा-शान्त्यादीनि विलोक्यन्तं एव । - गूर्जरदेशमेवाऽधिकृत्य वदेम तदा गूर्जरदेशे चापोत्कटवंशीयानां शासनस्याऽऽद्यस्थापकस्य वनराजचापोत्कटस्य गुरवो जैनाचार्याः श्रीशीलगुणसूरय आसन्, येषां धर्मपूर्ण मार्गदर्शनं प्राप्य वनराजेन स्वीयवंशस्थापना न्याय्येन पथा दृढीकृता । ततश्च तदारभ्य गूर्जरदेशस्य राजधान्यां श्रीमदणहिल्लपुरपत्तने राजसभायां जैनसाधूनां स्थानं महत्त्वपूर्ण स्थिरं च जातम् । ततश्चौलुक्यवंशस्थापकस्य मूलराजदेवस्य शासनेऽपि जैनाचार्याणां स्थानमविचलमासीत् । तत्पुत्रेण चामुण्डराजेन तु स्वीये शासने श्रीमतो वीरगणिनो जैनमुनेराचार्यपदप्रदानमहोत्सवः कारित आसीत्, ते चाऽऽचार्या निजगुरुपदे स्थापिताः । तस्य पुत्रेण दुर्लभराजेन स्वीये शासने सर्वेषामपि जैनसाधूनां पत्तननगरे राज * यथा महाराष्ट्रे । + यथा कर्णाटके । Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
SR No.003028
Book TitleHemchandracharya Jivan Charitam
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2011
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy