SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ वासायाऽनुमतिः प्रदत्ता । तदवसरे च समागता जैनागमटीकाकृतां श्रीमदभयदेवसूरीणां गुरुवर्या जिनेश्वरसूरयोऽन्ये च बुद्धिसागरव्याकरणरचयितारो बुद्धिसागरसूरयोऽपि तस्य राज्ञः सभायां धर्मबोधनार्थं नित्यं समागच्छन्ति स्म । अथ श्रीदुर्लभराजभ्रातृनागदेवपुत्रस्य (प्रथम)भीमदेवस्य तु मातुला एव प्रसिद्धजैनाचार्या द्रोणाचार्याभिधा आसन् । एतैर्हि श्रीमदभयदेवसूरिविरचितानामागमग्रन्थटीकानां संशोधनं कृतमासीत् । तेषां च शिष्यैः सूराचार्याभिधैर्हि भोजराजप्रेषितायौँ गाथाया यथोचितमुत्तरं प्रदत्तमासीत् धारां च गत्वा भोजराजस्य सभापण्डिताः स्वीयप्रतिभाबलेन निर्जिताः ।। भीमदेवस्य पुत्रः कर्णदेवोऽपि जैनाचार्याणामुपदेशान् शृणोति स्म तेभ्यश्चाऽऽदरं प्रदत्ते स्म । तत्पुत्रः सिद्धराजो जयसिंहो विद्वान् नीतिमान् सर्वधर्म-मतसमन्वयेच्छुकश्चाऽऽसीत् । तस्य शासने पत्तने समागतानां श्रीमदभयदेवसूरीणां संयमादिगुणैराकृष्टः स तेभ्यो मलधारीति बिरुदं दत्तवान् । तेषामेव शिष्याणां मलधारिश्रीहेमचन्द्रसूरीणां प्रवचनं धर्मोपदेशं च श्रोतुं स यथावकाशं गच्छति स्म । तेषामुपदेशेन स राजा स्वीयराज्ये अशीतेर्दिनानाममारिघोषणमपि कारितवान् । तस्य सभायामेव वादिश्रीदेवसूरयो वादे दिगम्बराचार्यं कुमुदचन्द्राभिधं पराजितवन्तः । ततश्चाऽस्माकं चरित्रनायकाः कलिकालसर्वज्ञा: श्रीहेमचन्द्रसूरयोऽपि तस्य राज्ञो विद्याक्षेत्रे धर्मक्षेत्रे चाऽनन्या मार्गदर्शकाः सञ्जाताः। * भोजराजप्रेषिता गाथा - हेलानिद्दलियगइंदकुंभपयडियपयावपसरस्स। सीहस्स मएण समं न विग्गहो नेव संधाणं ॥ सूराचार्यस्योत्तरम् - अंधयसुयाणकालो, भीमो पुहवीइ निम्मिओ विहिणा। जेण सयं पि न गणियं का गणणा तुज्झ एक्कस्स ॥ Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
SR No.003028
Book TitleHemchandracharya Jivan Charitam
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2011
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy