________________
दुर्भिक्ष-दुष्कालादयः प्राकृतिकविपत्तयः समजायन्त । तथा मगधेष्वपि शुङ्गवंशीया राजानस्तदात्वे शासति स्म । तैश्चाऽत्याचारं कृत्वा जैना बौद्धाश्च साधवो भृशं पीडिताः । अतः सर्वमेतत् सम्मुखीकर्तुमशक्नुवन्तोऽथाऽपि च स्वस्य मार्गस्य चाऽस्तित्वं रक्षितुं बद्धादरास्ते पूर्वभारताच्छनैः शनैः निःसृत्य पश्चिमं मध्यं दक्षिणं च भारतं प्रति प्रस्थिताः । तत्राऽपि जैनानां द्वौ विभागावपि प्रायशस्तदात्व एव सञ्जातौ । तयोश्च दिगम्बराः साधवो मुख्यतो दक्षिणभारतं प्राप्ताः, श्वेताम्बराश्च मध्यं पश्चिमं च भारतं प्राप्ताः । तत्र च राजस्थानं पूर्वमेव जैन साधुभिर्भावितमासीत् । अतो बहवो जैनसाधवस्तत्रैव समागताः । तानेवाऽनुसरन्तो जैनश्रावका गृहस्थाश्चाऽपि समागताः । ते च स्वेन सह भाषां, जैनसंस्कृति, जैनग्रन्थान्, लिपि, लेखनकलां, मुख्यतश्चाऽहिंसामयं दयापूर्णं च धर्ममपि समानीतवन्तः । अनेन राजस्थाने मेवाडप्रदेशे मरु-(मारवाड)प्रदेशे च शनैः शनैः जैनधर्मप्रसारो जातः ।
अथ च राजस्थानादपि जैनसाधवो विहृत्य विहृत्य दक्षिणे सौराष्ट्रदेशे, वलभीप्रदेशे, लाटप्रदेशे चाऽपि गताः । तत्र च पूर्वमेव बौद्धानां प्रसर आसीत् । ते हि अशोकस्य कालादेव राज्याश्रयं प्राप्ताः सन्तोऽत्र बद्धमूलाः सञ्जाताः । (तेषां स्थानानि अद्याऽपि गिरिनगरे (जूनागढ) तालध्वजे (तलाजा-[भावनगरं]) च द्रष्टुं शक्यानि ।) एतेषां त्रयाणामपि प्रदेशानां मध्यविभाग आनर्तप्रदेशतयोपलक्ष्यमाणोऽथाऽपि विकसितो नाऽऽसीत् । तत्र हि बहुश आभीरजातयोऽन्याश्च तादृश्यो यायावरजातयो वसन्ति
* श्रीपार्श्वनाथसन्तानीयाः श्रीरत्नप्रभसूरिप्रमुखा आचार्या भगवतो महावीरस्य निर्वाणादचिरमेवाऽत्र समागता आसन् । तैश्चाऽत्रोपकेशनगरे लक्षशो जना जैनधर्मेण भाविताः उपकेश(ओसवाल)गोत्रस्य च स्थापनाऽपि कृता।
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org