________________
वाणिज्यार्थं भ्रमणं कुर्वन्ति स्म । तत्रत्यां संस्कृति कलादिसमृद्धिं चाऽत्राऽऽनयन्ति स्म, अत्रत्यां च तत्र तत्र नयन्ति स्म । अरे ! आफ्रिकीयदेशेषु वाणिज्यार्थं वसितुं गताः सर्वप्रथमं विदेशिनो गौर्जरा एव । यूरपीयास्तु ततो बहुकालान्तरं तत्र प्राप्ताः । इयं च परम्पराऽऽधुनिकैौजरैरपि अक्षुण्णतया रक्षिताऽस्ति । अद्य सर्वत्राऽपि जगति स्वीयवाणिज्यकलया गूर्जराः प्रसिद्धाः सन्ति । गूर्जरधनिकानां नामानि सम्प्रति वैश्विकसामयिकेष्वपि सादरं गृह्यन्ते । न चैतावत्, गूर्जरा वैज्ञानिकाः, सारस्वताः, विविधशाखीया विद्वज्जनाश्चाऽद्य विश्वप्रसिद्धाः सन्ति । सर्वतोऽप्यधिकं त्वेतद् यद् - गूर्जरजना मूलत एव निरुपद्रविणः, शान्ताः, दयालवः, अहिंसकाः, मिलनशीलाः, सहिष्णवः, संस्कारिणश्च सन्ति ।
अत्र प्रश्नोऽयं जायते यद् ईदृश्या गूर्जरप्रजायाः मूलं कुलं च कुत्र वर्तते ? इति । किन्त्वस्योत्तरं प्राप्तुमितिहासपृष्ठानि अवलोकनीयानि । विक्रमात् पूर्वं तृतीयशताब्द्यामैदम्प्राथम्येन गूर्जरप्रदेशस्य सौराष्ट्रस्य चोल्लेखाः प्राप्यन्ते मौर्यकालीनेष्वशोकादीनां शिलालेखेषु - गिरिनारपर्वतस्य तलहट्टिकायाम् । यद्यपि तदात्वे गूर्जर-इति नामोल्लेखो नाऽऽसीत् । एकतो गिरिनगरं सौराष्ट्रदेशश्च, अन्यतो वलभीसाम्राज्यं, मध्ये चाऽविकसितोऽर्धविकसितो वाऽऽनर्तप्रदेशो दक्षिणे च लाटदेश आसीत् । (उत्तरे च राजस्थानप्रदेशे मरुभूमौ श्रीमालनगरे गूर्जराणां राज्यमासीत् ।) अत्र च विक्रमस्य प्रथमशती यावन्मौर्यवंशीयानां साम्राज्यमासीत् । ततो द्वितीयात् पञ्चमं शतकं यावदत्र क्षत्रपवंशीयनृपाणां शासनमासीत् । अथ च तत्काले भिन्नमालनगरे (श्रीमालनगरे) गूर्जराणां साम्राज्यं किञ्चिदिव दुर्बलं जातम् । अतस्ते शनैः शनैः ततो निःसृत्याऽऽनर्तादिप्रदेशेषु समागतास्तत्रैव चोषिताः ।
इतश्च पूर्वभारते मगध-वङ्गोत्कलादिदेशेषु वारं वारं
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org