________________
वृथा साम्प्रदायिकोऽहङ्कारो नाऽऽसीत् प्रत्युत केवलं शुद्धतत्त्वमेव धर्मतया परिगणितमासीत् । रामचन्द्राचार्याणामितोऽप्यग्रे वक्तुं सामर्थ्य नाऽऽसीत् तथाऽपि साहसमवलम्ब्य तैः कथितं - 'यद्येवं तर्हि प्रभो ! वयं जैनधर्मविस्तारस्याऽवसरं नाशयिष्यामः' ।
एवं श्रुत्वाऽऽचार्यैर्वेदनापूर्णस्वरेण कथितं - 'भवन्तः सर्वेऽपि राजानं जैनधर्मं प्रत्याकृष्टं दृष्ट्वा हृष्यन्ति । इदमेव मे महद् दुःखकारणम् । कश्चन दरिद्रो जैनधर्मं स्वीकुर्याद् राजा वा कश्चन जैनधर्मं स्वीकुर्यादित्यत्र को वा विशेषः ? राजा कदाचित् बहूनि मन्दिराणि बध्नीयादित्येव किल ! । अपि च, यः कोऽपि कञ्चिद्धर्म स्वीकुर्यात् - तेनाऽपि किम् ? स यदि तं धर्म यथार्थरीत्याऽवबुध्य तदाचरणे निरतो भवेत् तदैव तेन स धर्मः स्वीकृत इति गण्येत । यदि भवादृशा अपि ईदृशमेव मतं धारयथ तदाऽहं मन्ये यद् राज्ञो व्यक्तित्वस्याऽन्यायो भवति । पूर्वस्य केनचिदलौकिकपुण्येन तस्य हृदये जगतः सर्वेषामपि जीवानां प्रति आत्मौपम्यं प्रकटितमस्ति । सर्वानपि सूक्ष्मस्थूलजीवान् स प्रेम-दया-करुणादिभावैः पश्यत्यधुना। तस्य वृत्तिरपि धर्म प्रत्यधिकाधिकं प्रह्वीभूताऽस्ति । एतत् सर्वं दृष्ट्वाऽहं तद्भूमिकोचितं धर्मं मार्गं च दर्शयन्नस्मि, किन्तु सहैव तं तस्य कुलधर्मपालनेऽपि प्रेरयामि राजधर्मं प्रत्यपि जागरयामि । यतः केवलमस्माकं धर्मः किञ्चिद् विस्तरेदित्यर्थं समग्रेऽपि देशे घर्षणमसामञ्जस्यं च प्रवर्तयेयमित्येतावान् क्षुद्रो नैवाऽहम् । यतो राज्ञे यदि धर्मो रुचितोऽस्ति तदाऽन्येषामपि राजपुरुषादिभ्यो धर्मो रुचित एवेत्येवं मनितुं न किमपि कारणम् । सर्वेभ्योऽपि धर्मं रोचयितुं सामर्थ्यमस्मत्समीपे तु नास्त्येव । अतोऽस्माभिः केवलं समन्वयस्य समाधानस्य च मार्गे एवाऽग्रेसर्तव्यम् । तदैवाऽस्माभिर्वीतरागजिनेश्वराणां मार्ग उपशमभावश्च सम्यगाराधितः - इति वक्तुं शक्येत' ।
49 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org