________________
अहिंसालक्षणो धर्मो, मान्या देवी सरस्वती । ध्यानेन मुक्तिमाप्नोति, सर्वदर्शनसम्मतम् ॥
यो राजेमं धर्मं सम्यक्तयाऽऽचरेत् तस्य न कस्याऽपि विरोधः सम्मुखीकर्तव्यो भवेत् कदाऽपि, प्रत्युत सर्वा एव प्रजास्तत्साह्यमेवाऽऽचरेत् ।
यथा हेमचन्द्राचार्याणां चिन्तनमासीत् तथैव तेषां वाण्यपि अद्भुताऽऽसीत् । ते यदा वदेयुस्तदा कोऽपि विरोधं कर्तुं समर्थो नाऽऽसीत् । तेषां कथने कदाऽपि क्षुद्रवस्तूनां महत्त्वमेव न क्रियेत स्म ।
अथैकदा तेषां मुख्यशिष्यै रामचन्द्राचार्याभिधैस्तेभ्यः सूचितं - 'प्रभो ! महाराजः कुमारपालोऽधुना किञ्चिदिव जैनधर्म प्रत्याकृष्टोऽस्ति । यद्येतस्याः परिस्थितेर्लाभं वयं गृह्णीयामस्तदा जैनानां तद्धर्मस्थानादीनां च प्रभूतानि कार्याण्युत्तमतया भविष्यन्ति' । एतन्निशम्य हेमचन्द्राचार्यैः कथितं - 'भोः ! मनुष्यस्य - विचारशीलमनुष्यस्य जीवने तादृशः क्षण एकः समायात्येव यदा स क्षुद्रादपि क्षुद्रे जन्तावपि स्वस्मिन्निव चैतन्याविर्भावं लक्षयेत्, लक्षयित्वा च तं जन्तुं स्वतुल्यमेव मन्येत, तथा तस्य पीडायां स्वयमेव पीडामनुभवेत्, तन्नाशे च स्वनाशमेव भावयेत् । इदमस्ति सर्वजीवेष्वात्मौपम्यमिदमेव चाऽऽत्मौपम्यमस्ति जैनत्वम् । अस्मिन् जैनत्वे न कस्याऽपि सम्प्रदायविशेषस्याऽधिकारोऽस्ति किन्तु सर्वेषां कृतेऽस्त्येतत् । जैनत्वमेतद् यदा हृदये प्रकटति तदैव मनुष्यो जैनो भवेत्, नाऽन्यथा । कुमारपालमहाराजहृदयेऽपि जैनत्वं प्रकटीभूतमस्तीदम् । यदि वयमेतज्जैनत्वं - तात्त्विकं जैनत्वं. व्यापार्य तत्प्रति किञ्चिद् भौतिकं प्राप्तुमिच्छेम तदाऽस्मादृशः क्षुद्रो न कोऽपि स्यात्' ।
गुरोर्वाचि रामचन्द्राचार्यैरलौकिकं सत्त्वमनुभूतम् । तत्र
48 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org