SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ चारिसञ्जीवनीचारदृष्टान्तम् पुरा कश्चिद् व्यवहारी पूर्वपरिणीतां पत्नी परित्यज्य (नूतनां परिणीय) संग्रहणीसात्कृतसर्वस्वः सदैव (आस्ते । तदा) पूर्वपत्न्या पतिवशीकरणाय तद्वेदिभ्यः कार्मणकर्मणि पृच्छ्यमाने कश्चिद् गौडदेशीयो 'रश्मिनियन्त्रितं तव पतिं करोमी'त्युक्त्वा किञ्चिदचिन्त्यवीर्यं भेषजमुपनीय ‘भोजनान्तर्देय'मिति भाषमाणः स गतः । कियद्दिनान्ते समागते क्षयाहनि तस्मिंस्तथाकृते स प्रत्यक्षां वृषभतां प्राप । सा च तत्प्रतीकार-मनवबुध्यमाना विश्वविश्वाक्रोशान् सहमाना निजं दुश्चरितं शोचन्ती कदाचिन्मध्यन्दिने दिनेश्वरकठोरतर-निकरप्रसरतप्यमानाऽपि शाड्वलभूमिषु तं पतिं वृषभरूपं चारयन्ती, कस्याऽपि तरोर्मूले विश्रान्ता निर्भरं विलपन्ती, आलापं नभस्यकस्माच्छुश्राव । तदा तत्राऽऽगतो विमानाधिरूढः पशुपतिर्भवान्या तदुःखकारणं पृष्टो यथावस्थितं निवेद्य तस्यैव तरोश्छायायां पुंस्त्वनिबन्धनमौषधं तन्निर्बन्धादादिश्य तिरोदधे । सा तदनु तदीयां छायां रेखाङ्कितां निर्माय तन्मध्यवर्तिन औषधाङ्करानुच्छेद्य वृषभवदने क्षिपन्ती, तेनाऽप्यज्ञातस्वरूपे-णौवधाङ्करेण वदनन्यस्तेन स वृषभो मनुष्यतां प्राप । ___ यथा तदज्ञातस्वरूपोऽपि भेषजाङ्करः समीहितकार्यसिद्धिं चकार तथा कलियुगे मोहात् सम्यग-परिज्ञानेऽपि सर्वदर्शनाराधनेनाऽविदितस्वरूपोऽपि धर्मो मुक्तिप्रदो भवतीति निर्णयः । (प्रबन्धचिन्तामणिः) 105 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
SR No.003028
Book TitleHemchandracharya Jivan Charitam
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2011
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy