________________
प्रसञ्जाः
श्रीदेवसूरीणां दिगम्बरैः सह वादे जायमाने आचार्यहेमचन्द्रा अपि तेन सार्धं गताः । तदा दिगम्बरः कुमुदचन्द्रवादी स्वयं ज्यायान् किञ्चिद्व्यतिक्रान्तशैशवं श्रीहेमचन्द्रं प्रति 'पीतं तर्क भवता?' इत्यभिहिते श्रीहेमचन्द्रस्तं प्रति 'जरातरलितमतिः किमेवमसमञ्जसं ब्रूषे ? श्वेतं तर्क, पीता हरिद्रा' इति वाक्येनाऽधःकृतः 'युवयोः को वादी ?' इति पृच्छन् श्रीदेवसूरिभिस्तिरस्करणाय 'अयं भवतः प्रतिवादी'त्यभिहिते कुमुदचन्द्रः प्राह - 'मम वृद्धस्याऽनेन शिशुना सह को वादः ?' इति तदुक्तिमाकर्ण्य 'अहमेव ज्यायान्, भवांस्तु शिशुः योऽद्याऽपि कटीदवरकं निवसनं च नाऽऽदत्से' इति हेमचन्द्रेणोक्तम्।
(प्रबन्धचिन्तामणिः)
अन्यदा श्रीकुमारपालनृपपुरतः श्रीयोगशास्त्रव्याख्याने सञ्जायमाने पञ्चदशकर्मादानेषु वाच्यमानेषु ‘दन्त-केश-नखास्थित्वग-रोम्णां ग्रहणमाकरे' इति सूरिकृते पाठे पं. उदयचन्द्रगणिनं 'रोम्णो ग्रहण'मिति भूयो भूयो वाचयन्तं प्रभुभिलिपिभेदं पृष्टे स 'प्राणि-तूर्याङ्गाणाम्' इति व्याकरणसूत्रेण प्राण्यङ्गानां सिद्धमेकत्वमिति लक्षणविशेषं विज्ञपयन् प्रभुभिः श्लाघितो राज्ञा न्युञ्छनेन सम्भावितः।
(प्रबन्धचिन्तामणिः)
-
-
-
-
-
106
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org