________________
कदाचित् प्रत्यूषे श्रीकपर्दिमन्त्री प्रणामानन्तरं श्रीसूरिभिर्हस्ते किमेतदिति पृष्टे स प्राकृतभाषया हरडइ(हरीतकी) इति विज्ञपयामास । प्रभुभिरुक्तं - 'किमद्याऽपि ?' अनाहतप्रतिभतया तद्वचनच्छलमाकलय्य कपर्दिनोक्तम् – 'इदानीं तु न' । 'कुतः ?' 'अन्त्योऽप्याद्योऽभूत् मात्राधिकश्चेत्यतः' । हर्षाश्रुपूर्णदृशः प्रभवः श्रीराम-चन्द्रप्रभृतिपण्डितानां पुरस्तात्तच्चातुरी प्रशशंसुः । तैरज्ञाततत्त्वैः किमिति पृष्टो हरडइ इति शब्दच्छलेन ह-कारो रडइ(रोदिति), अस्माभिरुक्तं - 'किमद्याऽपि ?' इत्यभिहितमात्रेण वचस्तत्त्वविदाऽनेन 'नेदानी' मुक्तम् । यतः पुरा मातृकाशास्त्रे हकारः प्रान्ते पठ्यते अत एव रडइ, साम्प्रतं त्वस्मन्नामनि प्रथमस्तथा मात्राधिकश्चेत्यतो न ।
(प्रबन्धचिन्तामणिः)
अन्यदा हेमचन्द्रचार्येषु राजसभायामागच्छत्सु सत्सु वामराशिर्भरटकस्तानुद्दिश्य निन्दाश्लोकमाह
यूकालक्षशतावलीवलवलल्लोलोल्लसत्कम्बलो दन्तानां मलमण्डलीपरिचयाद् दुर्गन्धरुद्धाननः । नासावंशनिरोधनाद् गिणिगिणीपाठप्रतिष्ठास्थितिः सोऽयं हेमडसेवड: पिलपिलत्खल्लिः समागच्छति ।।
श्रुत्वैतत् स्मिताननैराचार्यैस्तत्पार्वं गत्वा मधुरस्वरेण कथितं – “विद्वद्वर्य ! उत्तमोऽयं श्लोको भवता कल्पितः, किन्तु त्रुटिरेका परिमार्जनीयाऽस्ति । 'हेमडसेवड' - इत्यस्य स्थाने 'सेवडहेमड' इति कर्तव्यं, यतो विशेषणं सर्वदा पूर्वमेव पठ्यते' ।
एतदाकर्ण्य वामराशिस्त्रपाधोमुखो जातः, सभासदश्चाऽऽचार्याणां समत्वं गाम्भीर्यं च दृष्ट्वा विस्मयं प्राप्ताः ।
(प्रबन्धचिन्तामणिः)
-
-
-
-
-
107 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org