________________
विधाय न्याय्यसङ्ग्रामं मुक्तप्राणे पितामहे । विमृश्य तद्वचस्तेऽङ्गमुत्पाट्याऽस्य ययुगिरौ ॥२०॥ अमानुषप्रचारे च शृङ्गे कुत्राऽपि चोन्नते । अमुञ्चन्; देवतावाणी क्वाऽपि तत्रोद्ययौ तदा ॥२१।।
तथा हि -
अत्र भीष्मशतं दग्धं पाण्डवानां शतत्रयम् । द्रोणाचार्यसहस्त्रं तु कर्णसङ्ख्या न विद्यते ॥२२॥ एतद् वयमिहाऽऽकर्ण्य व्यमृशाम स्वचेतसि । बहूनां मध्यतः केऽपि चेद् भवेयुर्जिनाश्रिताः ॥२३॥ गिरौ शत्रुञ्जये तेषां प्रत्यक्षाः सन्ति मूर्तयः । श्रीनासिक्यपुरे सन्ति श्रीमच्चन्द्रप्रभालये ॥२४॥ केदारे च महातीर्थे कोऽपि कुत्राऽपि तद्रतः । बहूनां मध्यतो धर्मं तत्र ज्ञानं न नः स्फुटम् ।।२५।। स्मार्ता अप्यनुयुज्यन्तां वेदविद्याविशारदाः । ज्ञानं कुत्राऽपि चेद् गङ्गा न हि कस्याऽपि पैतृकी ॥२६।। राजा श्रुत्वाऽऽह तत् सत्यं वक्ति जैनर्षिरेष यत् । अत्र ब्रूतोत्तरं तथ्यं यद्यस्ति भवतां मते ॥२७॥ अत्र कार्ये हि युष्माभिरेकं तथ्यं वचो ननु । अजल्पि यद् विचार्यैव कार्यं कार्य क्षमाभृता ।।२८।। उत्तरानुदयात् तत्र मौनमाशिश्रियंस्तदा । स्वभावो जगतो नैव हेतुः कश्चिन्निरर्थकः ॥२९।। राज्ञा सत्कृत्य सूरिश्चाऽभाष्यत स्वागमोदितम् । व्याख्यानं कुर्वतां सम्यग् दूषणं नास्ति वोऽण्वपि ॥३०॥ (श्रीप्रभाचन्द्रसूरिविरचिते प्रभावकचरिते हेमचन्द्राचार्यचरित्रे
__ श्लो. १४१-१६९, १७१)
104 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org