________________
अमी श्वेताम्बराः शूद्रा विद्रुतस्मृतिसूक्तयः । तदुक्तवैपरीत्यानि जल्पन्ति निजपर्षदि ॥७॥ अनौचित्यकृताचारात् पुरे तेऽरिष्टमित्यदः । भूभृता रक्षणीयाश्च दुराचाराः प्रजाकृताः ॥८॥ विचार्य हृदि कार्याणि विचारक ! विधेहि तत् । इत्युक्त्वा विररामाऽसौ परव्यूहोऽतिधीरगीः ॥९॥ राजाऽप्याह न भूपाला अविमृश्यविधायिनः । दर्शनानां तिरस्कारमविचार्य न कुर्वते ॥१०॥ अनुयोज्या अमी चाऽत्र दधुश्चेत् सत्यमुत्तरम् । तन्मे गौरविता एव न्याय एवाऽत्र नः सुहृत् ॥११॥ हेमाचार्योऽपि निर्ग्रन्थः सङ्गत्यागी महामुनिः । असूनृतं कथं ब्रूयाद् विचार्यं तदिदं बहु ॥१२॥ एवं भवत्विति प्रोचुः प्रवीणा इतरे अपि । आजुहाव ततो राजा हेमचन्द्रं मुनीश्वरम् ॥१३।। अपृच्छदथ माध्यस्थ्यात् सर्वसाधारणो नृपः । शास्त्रे चाऽऽर्हती दीक्षा किं गृहीता पाण्डवैः किमु ? ॥१४॥ सूरिरप्याह शास्त्रे नः इत्यूचे पूर्वसूरिभिः । हेमाद्रिगमनं तेषां महाभारतमध्यतः ॥१५॥ परमेतन्न जानीमो ये नः शास्त्रेषु वर्णिताः । त एव व्यासशास्त्रेऽपि कीर्त्यन्तेऽथ परेऽपरे ॥१६।। राजाऽऽह तेऽपि बहवः पूर्वं जाताः कथं मुने ! अथाऽवोचद् गुरुस्तत्र श्रूयतामुत्तरं नृप ! ॥१७॥ व्याससन्दर्भिताख्याने श्रीगाङ्गेयः पितामहः । युद्धप्रवेशकालेऽसावुवाच स्वं परिच्छदम् ।।१८।। मम प्राणपरित्यागे तत्र संस्क्रियतां तनुः । न यत्र कोऽपि दग्धः प्राग् भूमिखण्डे सदा शुचौ ॥१९।।
103 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org