________________
राजपुरुषाणां मध्ये उपविष्टाः, राज्याधिकारोपरि च नैतिकसत्तायाः श्रेष्ठत्वं प्रमाणितम् । गूर्जरदेशस्य महत्त्वाय च शब्ददेहः समर्पितः । अद्य तेषां स्वर्गमनस्य शतशो वर्षाणि व्यतीतानि तथाऽपि गूर्जरभाषाभाषकस्य लोकसमूहस्य जीवने तेऽद्याऽपि जीवन्ति ।।
(- क.मा.मुनशी, भारतीयविद्याभवनसंस्थापकः) १८. गूर्जरदेशे तादृशा विद्वांसोऽतीव स्तोका येषां स्थानं वैश्विकसाहित्यक्षेत्रे स्यात् । हेमचन्द्राचार्या तेषामन्यतमाः । तेषामुदारव्यक्तित्वेन गूर्जरदेशो विश्वव्यापको जातः । गूर्जरभाषा, गूर्जरसंस्काराः, गूर्जरप्रणालिकाः (रूढयः), गूर्जरव्यवहार-विवेकौगूर्जरसाहित्यं, गूर्जराणां समन्वयभावना, गूर्जराणां च गूर्जरत्वम् - एतेषु सर्वेष्वपि हेमचन्द्राचार्याणा-मस्तित्वस्याऽप्रतिमं मुद्राङ्कनं वर्तते। पूर्वं हि गूर्जराणां भाषाशुद्धिषाभिमानश्च नाऽऽस्ताम् । हेमचन्द्राचार्यैस्तेभ्यो भाषाभिमानो भाषाशुद्धिश्च प्रदत्ते । अर्थोपार्जने रता जनाः स्वपूर्वजानां पराक्रमगाथां विस्मरन्त आसन् । पराक्रम एव जीवनमिति तथ्यं तेषां मनसो विलुप्यमानमासीत् । हेमचन्द्राचार्यैः शूराणां भटानां सज्जनानां सहृदयानां च कर्तव्यानि लोकभाषाग्रथितगाथानां माध्यमेन समुपदिश्य निर्बला गौर्जरा अपि पराक्रमिणः कृताः । गूर्जराणां स्वीयामस्मितां त एवमेव सहजतया प्रकटितवन्तः ।
सूर्योदयवेलायां, सरस्वतीनदीतटे स्थितामेकां महाशक्ति, स्वनिर्मलतेजसा समग्रमपि गूर्जरदेशं प्रकाशयन्ती कल्पयन्तु, भवतां हेमचन्द्राचार्या दृश्येरन् ।
(धूमकेतुः, गूर्जरसाहित्यकार:) १९. कलिकालसर्वज्ञरूपमप्रतिमं बिरुदं प्राप्तवतां श्रीहेमचन्द्राचार्याणां जीवनं नाम भारतीयसंस्कृतेरेका यशउज्ज्वला गौरवगाथा । प्राचीना अर्वाचीना भारतीया वैदेशिकाश्च विद्वांसो यन्मुक्तकण्ठं
97 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org