________________
१६. हेमचन्द्राचार्या नामाऽद्वितीयाः साहित्यस्रष्टारोऽनुपमयुगद्रष्टारः, समर्थाश्च धर्माचार्याः, हेमचन्द्राचार्या नाम सर्वतोमुख-परिणतप्रज्ञा, साङ्गोपाङ्गं सम्पूर्णमध्ययनं, स-रसा सर्वोत्कृष्ट-सर्जकता, तथा हेमचन्द्राचार्या नाम ज्ञानमहार्णवः, जङ्गमो ज्ञानकोशः, विद्याम्भोधिमन्थनमन्दरगिरिः । कियद् वा कथयामः ?
तत्सदृशस्य महोर्जस्विनः सुपुत्रस्य कृते गूर्जरदेशो देशवासिनश्च यावन्तं गर्वं गौरवं च वहेयुस्तावन्तमल्पमेव ।
कलिकालसर्वज्ञानां तेषां कुशाग्रप्रज्ञाया अगोचरा न काऽपि विद्याशाखा । सर्वग्राहिण्या बुद्धिशक्त्या तैर्व्या-करणालङ्कारच्छन्दः-कोश-काव्य-चरित-दर्शन-तर्क-योगादीनि सर्वाण्यपि क्षेत्राणि समवगाहितानि ।
तेषां विद्या-तपसोः प्रभावेण गूर्जरदेशोऽद्याऽपि शान्तोऽहिंसकः समन्वयवादी चाऽस्ति ।
(- चतुरभाई शङ्करभाई पटेलः,
प्राकृतव्याकरणवित्) १७. हेमचन्द्राचार्या हि महातपस्विनो महा-राजनीतिज्ञा महान्तश्च विद्यानिधयः । चिरकालाय तैः पत्तननगरस्य संस्कारस्वामिनां चक्रवर्तिपदमनुभूतम् । जैनसाधुसहजं देशभ्रमणं त्यक्त्वा गूर्जरदेशमुन्नतं विकसितं च कर्तुं तैः स्वजीवनं समर्पितम् । तेषां सर्जनं नूतनामेव कल्पनासृष्टिं विरचितवत् । ततश्च अणहिल्लपुरपत्तनं जगत्येव विश्रुतं जातम् । चौलुक्यवंशेन रघुवंशस्य यशः प्राप्तम् । ततस्तैः कुमारपालमपि प्रतिबोध्य शुद्धमार्गे च प्रेर्य मद्य-मांसौ निषेधितौ, नैतिकविशिष्टता-याश्चाऽद्भुतं वर्णलेपनं कृतम् । साहित्य-शास्त्रविद्यायाः समृद्धेः कलिकालसर्वज्ञत्वं प्राप्तम् । वादिनो जिताः । अगाधं च ज्ञाननिधि मथित्वा श्रेष्ठानि कृतिरत्नानि विरचितानि । गूर्जरजनाय संस्कृतसाहित्यजगति स्थानं प्रदत्तम् । स्वयं च ते
96
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org