________________
१५. नमोऽस्तु हेमचन्द्राय, विशदा यस्य धीप्रभा ।
विकासयति सर्वाणि, शास्त्राणि कुमुदानीव ।।
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यान् पाश्चात्या विद्वांसो ज्ञानमहार्णवः (Ocean of knowledge) इति सादरं वर्णयन्ति, तथैव तेषां कृते अतिशायिप्रज्ञः (Intellectual Giant) इति विशेषणं प्रयुञ्जन्ति । तेषां प्रतिभायाः प्रभा न केवलं धर्माध्यात्मक्षेत्रेषु अपि तु साहित्य-भाषा-तर्कादिक्षेत्रेष्वपि समानतया विस्तीर्णाऽस्ति । तेषां व्यक्तित्वे समकालमेव वैयाकरणस्य, आलङ्कारिकस्य, साहित्यकारस्य, दार्शनिकस्येतिहासकारस्य, पुराणकारस्य, कोशकारस्य, छन्दोनुशासकस्य, धर्मोपदेशकस्य, महतो युगकवेश्च समन्वयो दृश्यते । तेषां व्यक्तित्वं सार्वकालिकं सर्वदेशिकं विश्वजनीनं चाऽस्ति सहैव तेषां कार्याणि सम्प्रदायातीतानि सार्वजनीनानि च । अत एव तेऽन्येभ्य आचार्येभ्यो विद्वद्भयः कविभ्यश्चाऽत्यधिकं श्रद्धा-सम्मानाधिकारिणः । तेषां जीवने प्रतिपदं विविधता, सर्वदेशीयता, पूर्णता, सत्यं, समन्वयिता च दृश्यते । ते हि निर्भया, राजनीतिविचक्षणा, गुरुसेविनो, वादिमानमर्दकाः, सत्योपासकाः, संस्कृतिपोषका, देशोद्धारकाश्चाऽऽसन् । एवं सत्यपि कस्मिंश्चिदपि जागतिकपदार्थे तेषां मोहो ममत्वं वा नाऽऽसीत् ।
समग्रेऽपि भारतवर्षस्येतिहासे यदि परं सर्वथाऽपि मद्यमांसयोनिषेधो हि राज्ञः कुमारपालस्य काले एव जातः । तस्य च सम्पूर्ण श्रेयो निःसन्देहतया हेमचन्द्रा-चार्याणामेव । सिद्धराजजयसिंहकुमारपालश्चेत्युभयोर्नुपयोः सत्ताकाले विराजमानानां तेषां युगो हैमयुगः इति नाम्नेतिहासस्य सुवर्णपृष्ठेष्वङ्कितोऽस्ति ।
(-वि.भा.मुसलगांवकरः, दार्शनिको महाविद्वान्)
95 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org