________________
तेषां सदृशो निर्लेपः, आदर्शजीवी, विद्वान्, साहित्यस्रष्टा, राजनीतिदक्षः, व्यवहारज्ञः, तेजस्वी, प्रतिभावांश्च पुरुषः प्राप्तुमशक्य एव । अत एव तेषां कलिकालसर्वज्ञः इति बिरुदं सर्वथा सार्थकमस्ति"।
(आगमप्रभाकरः मुनिश्रीपुण्यविजयः) १२. नूनं हेमचन्द्राचार्या वर्तमानकालीनभारतीयमानसस्रष्टष्वन्यतमाः । भारतीये चेतिहासे तेषां स्थानं वाल्मीकि-व्यासशङ्कराचार्यादीनां सदृशमस्ति । (-के.एम्. पाणिक्करः A Survey of Indian History ग्रन्थे) १३. हेमचन्द्राचार्याणां समकालीनैराचार्यैर्विद्वद्भिश्च तेषां कृते प्रयुक्तं 'कलिकालसर्वज्ञः' इति बिरुदं, तेषां सर्वास्वपि विद्याशाखासु विस्मयावहां साधिकारां गतिं दृष्ट्वा सर्वथा योग्यमेवाऽस्ति । कवितया शास्त्रकारतया च ते वस्तुतो महासमर्थाः आसन् । तैहि स्वप्रतिभया स्वदेशस्य भाग्यं संस्कृतिश्च परावर्तिते। न केवलं जैना अपि तु गूर्जरदेशोऽपि तेषां महान्तं ऋणभारं धारयति, तथा वैश्विकसंस्कृत-साहित्यक्षेत्रेऽपि वैयाकरणतया कोशकारतया काव्यशास्त्र-प्रणेतृतया छन्दःशास्त्रकारतया च तेषां विशिष्टं स्थानमस्ति।
(-एम्. विन्टरनित्झ, जर्मनविद्वान्) १४. शब्दविज्ञानक्षेत्रे हेमचन्द्राचार्याणां प्रदानमतिविशालं विस्मयप्रेरकं च । तेषां पाण्डित्यं ह्यगाधमप्रतिरूपं चाऽस्ति, तथा विद्वज्जनानां कृतेऽद्यावधि ते कलिकालसर्वज्ञाः - कलियुगे सर्वस्याऽपि ज्ञेयस्य ज्ञातारः - सन्ति, यच्च विशेषणं ते सर्वथाऽर्हन्ति । मध्यकालीनभारते तेषां परिमाणं धारयन्तो विद्वांसो प्रायो न सन्ति ।
(-एस्. सेनगुप्ता, महावैयाकरण:)
94 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org