SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ७. ८. ९. वैदुष्यं विगताश्रयं श्रितवति श्रीहेमचन्द्रे दिवम् ॥ (राजकविः सोमेश्वरदेवः सुरथोत्सवमहाकाव्ये) निःसीमप्रतिभैकजीवितधरौ नि:शेषभूमिस्पृशां पुण्यौघेन सरस्वती - सुरगुरू स्वाङ्गैकरूपौ दधन् । यः स्याद्वादमसाधयन्निजवपुर्दृष्टान्ततः सोऽस्तु मे सबुद्ध्यम्बुनिधिप्रबोधविषये श्रीहेमचन्द्रः प्रभुः ॥ ( आ. मल्लिषेणसूरिः स्याद्वादमञ्जरीमङ्गलाचरणे) सप्तर्षयोऽपि गगने सततं चरन्तो त्रातुं क्षमा न मृगीं मृगयोः सकाशात् । जीयाच्चिरं कलियुगे प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः ॥ (विविधगच्छीयपट्टावलीसङ्ग्रहे) १०. यः सुज्ञैः सर्ववित् प्रोक्तः कलिकालेऽपि सूरिराट् । तस्य श्रीहेमचन्द्रस्य प्रमाणं मेऽत्र वर्तताम् ॥ (श्रीमधुसूदनः मोदी हेमसमीक्षारम्भे) ११. " तेषां समये न कोऽपि गच्छो न काऽपि परम्परा जैनसम्प्रदाये आसीद् यत्र स्थिताः साधवस्तेषां गुणैर्मुग्धाः सन्तस्तेषां स्तुतिं न कृतवन्तः स्युः । ****** तैर्हि स्वजीवने राजा, राज्यं, मित्राणि, विरोधिनः, शिष्याः, जैनाः, जैनेतराः, धर्मोपदेशः, साहित्यसर्जनं, निर्ग्रन्थजीवनं, लोकसम्पर्क: - इत्येतेषां सर्वेषामपि विषयाणां समानतयोत्तरदायित्वं पालनीयमासीत् । तच्च तैः स्वजीवनस्य प्रत्येकं क्षणं पूर्णतयोपयुज्य पालितम् । देश-विदेशानां सर्वोऽपीतिहासो यदि विलोक्येत तदाऽपि 93 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
SR No.003028
Book TitleHemchandracharya Jivan Charitam
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2011
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy