________________
तथा तेषां समकालीना एव श्रीसोमप्रभसूरयस्तान् स्तुवन्तिकिं स्तुमः शब्दपाथाधेमचन्द्रयतेर्मतिम् । एकेनाऽपि हि येनेदृक् कृतं शब्दानुशासनम् ॥१॥ स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि, यः क्षोणिभर्तुळधित प्रबोधम्
॥२॥ (कुमारपालप्रतिबोधग्रन्थे) क्लृप्तं व्याकरणं नवं विरचितं छन्दो नवं व्याश्रयालङ्कारौ प्रथितौ नवौ प्रकटितं श्रीयोगशास्त्रं नवम् । तर्कः सञ्जनितो नवो जिनवरादीनां चरित्रं नवं बद्धं येन न केन केन विधिना मोहः कृतो दूरतः ॥
(शतार्थकाव्यटीकायाम्) तेषां शिष्यौ श्रीरामचन्द्रसूरि-गुणचन्द्रसूरी कथयतः - शब्द-प्रमाण-साहित्य-च्छन्दोलक्ष्मविधायिनाम् । श्रीहेमचन्द्रसूरिपादानां प्रसादाय नमो नमः ॥ (नाट्यदर्पणे) गुरुगूर्जरराजस्य चातुर्विद्यैकसृष्टिकृत् । त्रिषष्टिनरसद्वृत्त-कविर्वाचां न गोचरः ॥
(मुनिरत्नसूरयोऽममचरित्रे) सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः क्ष्मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा । उन्मीलन्ति महामहांस्यपि परे-लक्षाणि ऋक्षाणि वै नो राकाशशिना विना बत भवत्युज्जागरः सागरः ।।
__ (उया.जिनमण्डनगणी कुमारपालप्रबन्धे)
६. साहित्य-व्याकरणाद्यने कशास्त्रनिर्माणप्रत्नप्रजापतिः श्रीहेमचन्द्रयतिपतिः ।
(पूर्णकलशगणी प्राकृतद्वयाश्रयटीकारम्भे)
92
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org