________________
काव्येऽमुष्मिन् पूर्वं षडर्थे कृतेऽपि कौतुकात् षोडशोत्तरं व्याख्यानं
चक्रे ॥"
५. देवचन्द्रगणिः
अनेन विदुषा नाटकद्वयं लिखितमस्ति । तत्र चन्द्रलेखाविजयप्रकरणनाटके कुमारपालस्य शाकम्भरीजयो वर्णितोऽस्ति । द्वितीये च मानमुद्राभञ्जकनाटके सनत्कुमारविलासवत्योश्चित्रणमस्ति ।
६. उदयचन्द्रगणि:
अस्य विदुषो न कोऽपि ग्रन्थः प्राप्यते, किन्त्वस्य व्याकरणविषयको बोधोऽतीव स्पष्टः सूक्ष्मदर्शी चाऽऽसीत् । तस्य प्रेरणयाऽऽचार्यदेवेन्द्रसूरिणा सिद्धहेमबृहद्वृत्तेः कतिचिद्दुर्गपदव्याख्या नाम टीका, उपमितिभवप्रपञ्चाकथासारोद्धारः इत्याख्यो ग्रन्थश्च विरचितौ । तथा, आचार्यदेवेन्द्रसूरिशिष्येण कनकप्रभेण हैमन्याससारसमुद्धारो विरचितोऽस्ति । ७. यशश्चन्द्रगणि:
अस्याऽपि विदुषो न कोऽपि ग्रन्थः प्राप्यते । किन्तु ज्योतिर्विद्याया अङ्गविद्यायाश्चाऽध्येताऽयं मन्त्रवाद्यप्यासीदिति प्रबन्धग्रन्थेभ्यो ज्ञायते । अन्यान्येषु प्रधानकार्येषु हेमचन्द्राचार्याणां सहकारित्वमस्यैवाऽऽसीत् ।
८. मुनिबालचन्द्रः
महत्त्वाकाङ्क्षी मुनिरयं यद्यपि विद्वानासीत् तथाऽपि गुरुद्रोहं गुरुभ्रातृद्रोहं च कृत्वा सर्वत्र लघुतां च प्राप्य मालवदेशं गतवान् तत्रैव च मरणं प्राप्तवान् । जैनसङ्घऽतीव प्रचलिता स्नातस्या- इत्याद्यपदप्रसिद्धा वर्धमानस्वामिस्तुतिरनेनैव विरचितेति सम्भाव्यते ।
70
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org