SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ न स्वतन्त्र व्यथां वेत्ति, परतन्त्रस्य देहिनः ॥ ( नलविलासे ६-७ ) अजातगणनाः समाः परमतः स्वतन्त्रो भव ॥ ( नलविलासे प्रान्ते) प्राप्य स्वातन्त्र्यलक्ष्मीमनुभवतु मुदं शाश्वतीं भीमसेनः ॥ (निर्भयभीमव्यायोगे) एतादृशविलक्षणप्रतिभावतोऽस्य कवेर्मरणं स्वगुरुभ्रातुर्बालचन्द्रस्येर्ष्यया कुमारपालान्वये जातस्या -ऽजयपालनृपस्य द्वेषाद् बभूव । २. मुनिगुणचन्द्रः अनेन विदुषाऽऽचार्य रामचन्द्रसूरिणा सह नाट्यदर्पणं द्रव्यालङ्कारश्चेति ग्रन्थद्वयं सवृत्तिकं विरचितम् । तथा स्वस्याऽन्याभ्यां गुरुभ्रातृभ्यामाचार्यमहेन्द्रसूरि-वर्धमानगणिभ्यां सहाऽऽचार्य-सोमप्रभसूरिविरचितः कुमारपालप्रतिबोधग्रन्थः साद्यन्तः श्रुतः संशोधितश्च । ३. आचार्यमहेन्द्रसूरिः अनेन विदुषा स्वगुरुरचिताऽनेकार्थसङ्ग्रहो परि अनेकार्थकैरवाकरकौमुदी नाम टीका वैक्रमे १२४१तमे संवति लिखिताऽस्ति । ४. वर्धमानगणिः कुमारविहारप्रशस्तेर्व्याख्यां निर्मायाऽनेन विदुषा तस्या एकस्य पद्यस्य षोडशाधिकशतमर्थान् लिखित्वा स्वीयमद्भुतं पाण्डित्यं प्रकटितमस्ति । यद् वदति स्वयमेव सः " श्रीहेमचन्द्रसूरिशिष्येण वर्धमानगणिना कुमारविहारप्रशस्तौ Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org 69
SR No.003028
Book TitleHemchandracharya Jivan Charitam
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2011
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy