________________
किन्तु प्रबन्धशतनामा ग्रन्थो न प्राप्यते नाऽपि च शतं प्रबन्धाः प्राप्यन्तेऽद्य ।
स्वभावेन स स्वातन्त्र्यप्रियो मानी च । स्वकृते स विविधानि विशेषणानि प्रयुङ्क्ते आत्मश्लाघां चाऽपि कुरुते, यथा- कविः काव्ये रामः सरसवचसामेकवसतिः । (नलविलासे)
पञ्चप्रबन्धमिषपञ्चमुखानकेन, विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः । विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम् ॥ (रघुविलासे) ऋते रामान्नाऽन्यः किमुत परकोटौ घटयितुं रसान्नाट्यप्राणान् पटुरिति वितर्को मनसि मे ॥ (नलविलासे) प्रबन्धा इक्षुवत् प्रायो, हीयमानरसाः क्रमात् । कृतिस्तु रामचन्द्रस्य, सर्वा स्वादुः पुरः पुरः ।।
(कौमुदीमित्राणन्दे) स्वातन्त्र्यप्रियताऽपि तस्य विशिष्टमप्रतिमं च लक्षणम् । एतदर्थं तेन प्रदर्शिता उद्दामभावना अद्याऽपि प्रस्तुता एव । स्वीयकृतिष्वपि तेन यथासम्भवं स्वातन्त्र्यं मौलिकत्वं च प्रकटितमस्ति । कानिचिदुदाहरणानि पश्यामः
स्वतन्त्रो देव ! भूयासं, सारमेयोऽपि वर्मनि ।
मा स्म भुवं परायत्तस्त्रिलोकस्याऽपि नायकः ॥ - सूक्तयो रामचन्द्रस्य, वसन्तः कलगीतयः ।।
स्वातन्त्र्यमिष्टयोगश्च, पञ्चैते हर्षवृष्टयः ॥ (सत्यहरिश्चन्द्रनाटके) - स्वातन्त्र्यं यदि जीवितावधि, मुधा स्वर्भूर्भुवो वैभवम् ॥
(नलविलासे, २-२)
Jain Education InternationaFor Private
ersonal Use Only www.jainelibrary.org