________________
रचितानि । गूर्जरदेशस्य भारतस्य च संस्कृतसाहित्यक्षेत्रे तस्य प्रदानं वैविध्यपूर्णं श्रेष्ठगुणवत्तायुत्तं चाऽस्ति । तद्विरचितस्य सत्यहरिश्चन्द्रनाटकस्य इटलीदेशीय-भाषायां रूपान्तरमपि सञ्जातम् (ई. सं. १९१३) ।
एवं सत्यपि तस्य मुख्यप्रदानं तु नाट्यशास्त्रे एवाऽस्ति । यतो नाट्यशास्त्रस्य ग्रन्था एव अत्यल्पाः सन्ति । तेषां च रामचन्द्रसूरेर्नाट्यदर्पणं वैशिष्ट्ययुतमस्ति । विविधविषयकान्युदाहरणानि प्रस्तोतुं तेन चतुश्चत्वारिंशतो नाटकेभ्योऽवतरणानि सन्दृब्धानि । तदुल्लिखितनाटकानां कानिचन त्वद्याऽप्राप्याणि । यथा विशाखदत्तरचितं देवीचन्द्रगुप्तनाटकं न प्राप्यतेऽद्य । किन्तु तस्य बहून्यवतरणानि नाट्यदर्पणे विद्यन्ते । तैश्च मौर्य - कालीनेतिहासस्य बहूनि तथ्यानि प्रकटीभवन्ति । किञ्च नाट्यदर्पणे तेन रसशास्त्रमभिनयकलां चाऽऽश्रित्य कानिचन महत्त्वपूर्णानि तादात्विकरूढिभञ्जकानि च विधानानि कृतानि ।
अथ च पश्चात्कालीनग्रन्थेषु तस्य प्रसिद्धिः प्रबन्धशतकर्तृतया कृताऽस्ति साहित्यकारैः । स स्वयमपि स्वीयग्रन्थे विशेषणमिदं स्वकृते प्रयुनक्ति, यथा
“श्रीमदाचार्यहेमचन्द्रशिष्यस्य प्रबन्धशतकर्तृमहाकवे
रामचन्द्रस्य भूयांसः प्रबन्धाः ||"
(निर्भयभीमव्यायोगः, प्रस्तावनायाम् )
तथा " इति श्रीमदाचार्यहेमचन्द्रस्य शिष्येण प्रबन्धशतविधाननिष्णातबुद्धिना नाट्यलक्षणनिर्माणपातावगाढसाहित्याम्भोनिधिना विशीर्णकाव्यनिर्माणतन्द्रेण श्रीमता रामचन्द्रेण विरचितं..... द्वितीयं रूपकम् ॥"
(कौमुदीमित्राणन्दे)
Jain Education InternationaFor Private 67 Personal Use Only www.jainelibrary.org