________________
देव ! श्रीगिरिदुर्गमल्ल ! भवतो दिग्जैत्रयात्रोत्सवे धावद्धीरतुरङ्गनिष्ठुरखुरक्षुण्णक्षमामण्डलात् । वातोद्भूतरजोमिलत्सुरसरित्सञ्जातपङ्कस्थली
दूर्वाचुम्बनचञ्चुरा रविहयास्तेनाऽतिवृद्धं दिनम् ॥ __ श्रुत्वैतदतीव प्रसन्नेन राज्ञा तस्य कविकटारमल्लः - इति बिरुदं प्रदत्तम् ।
हेमचन्द्राचार्याणां स्वर्गमनाज्जातः कुमारपालस्य शोकस्तेनैवोपशमित आसीत् । कुमारपालस्य मुख्य आस्थानकविरपि स एवाऽऽसीदिति सम्भाव्यते ।
___ तेन रघुविलासः, नलविलासः, यदुविलासः, सत्यहरिश्चन्द्रः, निर्भयभीमव्यायोगः, मल्लिका-मकरन्दप्रकरणं, राघवाभ्युदयं, रोहिणीमृगाङ्कप्रकरणं, वनमालानाटिका, कौमुदी-मित्राणन्दं, यादवाभ्युदयं चेति एकादश नाटकानि विरचितानि; सुधाकलशः इतिनाम्ना च सुभाषितकोशो विरचितोऽस्ति । स्वगुरुभ्रात्रा गुणचन्द्रेण सह तेन नाट्यदर्पणं नामा नाट्यशास्त्रग्रन्थोऽपि विरचितोऽस्ति तथा द्रव्यालङ्कारनामा तर्कशास्त्रग्रन्थोऽपि रचितः । ग्रन्थद्वयमपि स्वचितवृत्त्यलङ्कृतमेव राजते । एतदतिरिच्य तेन सिद्धहेमव्याकरणस्य बृहद्वत्तेासोऽपि विरचितोऽस्ति । तथाऽन्यान्यपि कुमारविहारशतकम्, उदयनविहारप्रशस्तिः, ऋषभद्वात्रिंशिका-प्रभृतीनि काव्यानि च विरचितानि सन्ति । तत्समकालीनानां सर्वेषामपि विदुषां साहित्यतोऽस्य साहित्य-प्रवृत्तिरधिकाऽस्ति, विशाला विविधाऽपि चाऽस्ति । गूर्जरदेशस्य विद्वद्भिः प्रायो द्वाविंशतिर्नाटकानि विरचितानि, किन्तु तेषामेकादश नाटकानि श्रीरामचन्द्रसूरिणा
* ग्रन्थाग्रं - ५३०००श्लोकप्रमाणम् ।
bb
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org