________________
श्रीहेमचन्दाचार्याणां शिष्यवृन्दम्
श्रीहेमचन्द्राचार्यसदृशानां महापुरूषाणां परिकरे येषा नितरां ज्ञानपिपासा स्यात् तादृशा विद्याप्रियाः शिष्या एव सम्मीलिता भवेयुरिति तु सहजमेव । तेषां शिष्या प्रायः सर्वेऽपि प्रशस्ता विद्वांसः साहित्यकाराश्चाऽऽसन् – इति इतिहासो वदति । तत्राऽपि तेषां मुख्यशिष्य आचार्यरामचन्द्रसूरिरासीत् । तादात्विक-विद्वत्सु च तस्य स्थानं स्वगुरूणामनन्तरमेवाऽऽसीत् । एनमतिरिच्याऽन्येऽपि गुणचन्द्रः, महेन्द्रसूरिः, वर्धमानगणिः, देवचन्द्रः, उदयचन्द्रः, यशश्चन्द्रः, बालचन्द्रः - इत्याद्यास्तेषां शिष्या आसन् । ते सर्वेऽपि विद्वांसो यथाशक्ति साहित्य-रचयितारश्चाऽऽसन् । हेमचन्द्राचार्याणामनन्यसाधारणपाण्डित्यस्य छाया तेषु सर्वेषु दृश्यते स्म ।
अथ सर्वेषामपि तेषां परिचयं प्राप्नुमः - १. महाकविरामचन्द्रसूरिः
बाल्ये एव दीक्षां गृहीत्वा हेमचन्द्राचार्याणां शिष्यत्वमङ्गीकुर्वाणस्य चारणज्ञातीयस्याऽस्य जन्मस्थान-मातापित्रादि न किमपि ज्ञायते । हेमचन्द्राचार्याणां मुख्यशिष्य एष एवाऽऽसीत् । बाल्यादेव तस्य काव्यशक्तिरनुपमा प्रतिभा चाऽसाधारण्यासीत् । एकदा सिद्धराजजयसिंहेन गुरुभ्यः पृष्टं - 'प्रभो ! को भवतां विद्वान् गुणी च शिष्यः ?' गुरुभिः स्मित्वा 'रामचन्द्र' इति कथिते राजा तत्परीक्षार्थं – 'केनाऽतिवृद्धं दिनम् ?' इति सहसा तं पृष्टवान् । तदात्वे च निदाघसमय आसीत् । रामचन्द्रेणाऽपि तत्क्षणमेव कथितं -
Jain Education InternationaFor Private 65ersonal Use Only www.jainelibrary.org