________________
अधुना मया शेषमायुः शान्त्या धर्मसाधनं कृत्वा व्ययितव्यम्' इति । तस्य हेमचन्द्राचार्याणामुपकारा अपि स्मृतिपथमागताः । अतः स तेषां चरणयोः पतित्वा व्यज्ञपयत् - 'प्रभो ! मम राज्यमिदं भवदधीनमेवाऽतो भवन्त एवैनं राज्यं स्वीकुर्वन्तु, अहं भवदाज्ञाकारी सेवको भविष्यामि' । आचार्यास्तु तस्मै स्वीयमर्यादां भौतिकवस्तुषु च विरक्तिं बोधयित्वा कथितवन्तः -
भुञ्जीमहि वयं भैक्ष्यं, जीर्णं वासो वसीमहि ।। शयीमहि महीपृष्टे, कुर्वीमहि किमीश्वरैः ?' ॥
एतेनाऽधिकं सन्तुष्टो राजा तानेव स्वगुरुत्वेन सर्वकार्येषु च मार्गदर्शकत्वेन स्थापितवान् । ततः प्रत्यहं स तेषां पादमूले धर्म नीति च बोद्धं गच्छति स्म । तेन हि स्वजीवने शास्त्रज्ञानमत्यल्पं प्राप्तमासीदतः स तस्मिन्नपि वयसि पठितुमारब्धवान् । सर्वप्रथम स कामन्दकीयराजनीतिं पठितवान् । ततस्तेन व्याकरण-काव्यसाहित्यादीनामप्यध्ययनं कृतं तदभ्यासेन चाऽऽत्मनिन्दाद्वात्रिंशिकाभिधं काव्यमपि विरचितमासीत् । ततः सोऽन्यान्यशास्त्राण्यपि पठितवान् । अस्मिन् वयसि ज्ञानप्राप्तेस्तस्य निष्ठामालोक्य जनैस्तस्मै विचारचतुरानन इति बिरुदं प्रदत्तमासीत् । तस्य गुणसम्पदपि निरुपमाऽऽसीत् । यादृशो वीरः स तादृश एव संयतः, यथा नीतिनिपुणस्तथैव धर्मपरायणोऽपि, यद्यपि दुर्धर्षस्तथाऽपि सौम्यः, तात्त्विकबुद्धिरपि व्यवहारकुशलोऽनुभवज्ञानी च, आवश्यकतायां सत्यां कोटित्याग्यपि व्यवहारे मितव्ययी, यादृशश्च पराक्रमी तादृश एव क्षमावान् स आसीत् । तस्य पराक्रम-कौशलादिभिगूर्जरदेशस्य गौरवं चरमशिखरं प्राप्तम् ।
अथ वैक्रमे १२०७तमे संवति हेमचन्द्राचार्याणां मातुः साध्व्या अन्तकालः सन्निहित आसीत् । तयाऽपि च स्वस्थेन समाधियुतेन च मनसाऽनशनं स्वीकृतमासीत् । तदात्वे श्रावकैस्त
Jain Education InternationaFor Private
Personal Use Only www.jainelibrary.org