________________
गुणानुरक्तैस्तत्र साहाय्यं कृतम् । यदा चेयं वार्ता कुमारपालेन ज्ञाता तदा शीघ्रमेव सोऽज्ञातवासं त्यक्त्वाऽणहिल्लपुरपत्तनं प्राप्तो धैर्य पराक्रमं च प्रदर्श्य स्वयोग्यतां प्रमाणीकृतवान् । अतो मन्त्रिभिर्देशजनैश्च स एव राजत्वेनोद्घोष्य ११९९तमे वैक्रमाब्दे मार्गशीर्षकृष्णद्वितीयायां मृगशीर्षनक्षत्रे रविवासरे राज्येऽभिषिक्तः । राज्याभिषेककाले च तस्य वयः पञ्चाशद्वर्षेभ्योऽप्यधिकमासीत् । राज्यं प्राप्यैदम्प्राथम्येन तेन सर्वेऽपि निजोपकारिणः स्मारं स्मारं प्रत्युपकृताः ।
अथ सिद्धराजस्य मृत्योरनन्तरं तदधीना बहवो राजानोऽन्येऽपि च केचन स्वतन्त्रीभूय गूर्जरदेशं विरुध्य वर्तितुमारब्धाः । अतः कुमारपालस्य राज्यप्राप्तेः प्रारम्भिकवर्षाणि तु विरोधिनां विरोधस्य चोपशमे एव व्यतीतानि । तेनाऽत्यधिकं परिश्रमं कृत्वा सर्वेऽपि शत्रवो विरोधिनश्च जिताः । तस्य जीवनस्य प्रभूतः कालो भ्रमणे एव व्ययित आसीदतस्तस्य शास्त्रज्ञानं यद्यपि न्यूनमासीत् तथाऽपि व्यवहारज्ञानमनुभवज्ञानं च पूर्णमासीत् । शस्त्रविद्यायामपि स निपुणो महायोधश्चाऽऽसीदतः सैनिकेषु सोऽतीव प्रिय आसीत् । तेन निजं समग्रमपि व्यवहारज्ञानं युद्धकौशलं चोपयुज्य समग्राः शत्रवः पराजित्य मित्रीकृत्य चाऽष्टादशदेशेषु स्वशासनं स्थापितम् । ते च देशाः सपादलक्षः (शाकम्भरी), मालवः, कोङ्कणः, सिन्धुदेशः, यवनदेशः (तुर्कस्तानः), काशी, मगधदेशः, गौडदेशः, कान्यकुब्जः, दशार्णदेशः, चेदीदेशः, मथुरा, राजस्थानं, महाराष्ट्र, विदर्भ:, कुरुदेशः, पञ्चनदः, सौराष्ट्रदेशः - इत्यादय आसन् ।।
एतावता च प्रायो दशवर्षमितः कालो व्यतीतः । तदनन्तरं स स्थिरो जातः । इदानीं तस्य वयः प्रायः षष्टिवर्षमितमासीत् । अतस्तेन चिन्तितं – 'मम राज्यादिकं सर्वमपि सुस्थं जातमस्ति ।
एताना
40
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org